Proofing

This page has not been fully proofread.

सू. १४.]
 
,
 
चतुर्थोऽध्यायः ।
 
८४१
 
नस्य गत्यनुचिन्तने काचिदपेक्षा उपपद्यते; तस्मादपरविषया
गतिः । तत्र परापरब्रह्मविवेकानवधारणेन अपरस्मिन्ब्रह्मणि
वर्तमाना गतिश्रुतयः परस्मिन्नध्यारोप्यन्ते । किं द्वे ब्रह्मणी-
परमपरं चेति ? बाढम् - 'एतद्वै सत्यकाम परं चापरं च
ब्रह्म यदोंकार:' इत्यादिदर्शनात् । किं पुनः परं ब्रह्म किम-
परमिति, उच्यते - यत्र अविद्याकृतनामरूपादिविशेषप्रतिषे-
धान अस्थूलादिशब्दैर्ब्रह्मोपदिश्यते, तत्परम् तदेव यत्र नाम-
रूपादिविशेषेण केनचिद्विशिष्टम उपासनायोपदिश्यते - 'मनो-
मयः प्राणशरीरो भारूप:' इत्यादिशब्दैः, तदपरम् । ननु
एवमद्वितीयश्रुतिरुपरुध्येत - न, अविद्याकृतनामरूपोपाधि-
कतया परिहृतत्वात् । तस्य च अपरब्रह्मोपासनस्य तत्सं-
निधौ
श्रूयमाणम ' स यदि पितृलोककामो भवति' इत्यादि
जगदैश्वर्यलक्षणं संसारगोचरमेव फलं भवति, अनिवर्तित-
त्वादविद्यायाः तस्य च देशविशेषावबद्धत्वात् तत्प्राप्त्यर्थ
गमनमविरुद्धम् । सर्वगतत्वेऽपि च आत्मनः, आकाशस्येव
घटादिगमने, बुद्धायुपाधिगमने गमनप्रसिद्धिः इत्यवादिष्म
 
6
 
;
 
6
 
'तद्गुणसारत्वात्' इत्यत्र । तस्मात् ' कार्य बादरि:' इत्येष
एव स्थित: पक्ष: ; ' परं जैमिनि:' इति तु पक्षान्तरप्रति-
भानमात्रप्रदर्शनं प्रज्ञाविकासनायेति द्रष्टव्यम् ॥