Proofing

This page has not been fully proofread.

८४०
 
सूत्रभाष्ये
 
[पा. ३.
 
दर्शयति । तदेवं परब्रह्मविदो गन्तव्यादिविज्ञानस्य बाधित-
त्वात् न कथंचन गतिरुपपादयितुं शक्या । किंविषयाः पुन-
र्गतिश्रुतय इति, उच्यते-- सगुणविद्याविषया भविष्यन्ति ।
तथा हि — कचित्पञ्चाग्निविद्यां प्रकृत्य गतिरुच्यते, क्वचित्प-
र्यङ्कविद्याम् क्वचिद्वैश्वानरविद्याम् ; यत्रापि ब्रह्म प्रकृत्य
गतिरुच्यते- 'यथा प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म' इति
'अथ यदिदमस्मिन्त्रापुरे दहरं पुण्डरीकं वेश्म' इति
च, तत्रापि वामनीत्वादिभिः सत्यकामादिभिश्व गुणैः स-
गुणस्यैव उपास्यत्वात् संभवति गतिः । न क्वचित्परब्रह्मवि-
या गतिः श्राव्यते, यथा गतिप्रतिषेधः श्रावितः - 'न
तस्य प्राणा उत्क्रामन्ति' इति । ' ब्रह्मविदाप्नोति परम्
इत्यादिषु तु सत्यपि आप्नोतेर्गत्यर्थत्वे, वर्णितेन न्यायेन
देशान्तर प्रात्यसंभवात् स्वरूपप्रतिपत्तिरेवेयम् अविद्याध्यारो-
पितनामरूपप्रविलयापेक्षया अभिधीयते - ' ब्रह्मैव सन्ब्रह्मा -
प्येति' इत्यादिवत् इति द्रष्टव्यम् । अपि च परविषया
गतिर्व्याख्यायमाना प्ररोचनाय वा स्यात्, अनुचिन्तनाय वा ;
तत्र प्ररोचनं तावत् ब्रह्मविदो न गत्युक्त्या क्रियते, स्वसं-
वेद्येनैव अव्यवहितेन विद्यासमर्पितेन स्वास्थ्येन तत्सिद्धेः ;
न च नित्यसिद्धनिःश्रेयसनिवेदनस्य असाध्यफलस्य विज्ञा-
 
,