2026-05-06 05:22:07 by ambuda-bot
This page has not been fully proofread.
सू. १४ . ]
चतुर्थोऽध्यायः ।
--
८३९
तथापि निमित्ताभावस्य दुर्ज्ञानत्वमेव । न च अनभ्युपग-
म्यमाने ज्ञानगम्ये ब्रह्मात्मत्वे कर्तृत्वभोक्तृत्वस्वभावस्य आ
त्मनः कैवल्यमाकाङ्क्षितुं शक्यम्, अग्न्यौष्ण्यवत् स्वभाव-
स्यापरिहार्यत्वात् । स्यादेतत् — कर्तृत्वभोक्तृत्व कार्यम् अ-
नर्थ:, न तच्छक्ति:, तेन शक्त्यवस्थानेऽपि कार्यपरिहारा-
दुपपन्नो मोक्ष इति-तश्च न । शक्तिसद्भावे कार्यप्रसवस्थ
दुर्निवारत्वात् । अथापि स्यात् — न केवला शक्ति: कार्य-
मारभते अनपेक्ष्य अन्यानि निमित्तानि; अत एकाकिनी सा
स्थितापि नापराध्यतीति- -तश्च न, निमित्तानामपि शक्ति-
लक्षणेन संबन्धेन नित्य संबद्धत्वात् । तस्मात् कर्तृत्वभोक्तृत्व-
स्वभावे सति आत्मनि, असत्यां विद्यागम्यायां ब्रह्मात्मतायाम्,
न कथंचन मोक्षं प्रति आशा अस्ति । श्रुतिश्व - 'नान्यः
पन्था विद्यतेऽयनाय' इति ज्ञानादन्यं मोक्षमार्ग वारयति ॥
6
परस्मादनन्यत्वेऽपि जीवस्य सर्वव्यवहारलोपप्रसङ्गः,
प्रत्यक्षादिप्रमाणाप्रवृत्तेरिति चेत् — न, प्राक्प्रबोधात् स्वप्न-
व्यवहारवत् तदुपपत्तेः; शास्त्रं च यत्र हि द्वैतमिव भ-
वति तदितर इतरं पश्यति' इत्यादिना अप्रबुद्धविषये
प्रत्यक्षादिव्यवहारमुक्त्वा, पुनः प्रबुद्धविषये- ' यत्र त्वस्य'
सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इत्यादिना तदभावं