2026-05-06 05:22:07 by ambuda-bot
This page has not been fully proofread.
८३८
सूत्रभाष्ये
[ पा. ३.
निर्मिमते, कानिचित्तु देशकालनिमित्तप्रतीक्षाण्यासते - इत्यतः
तेषामवशिष्टानां सांप्रतेनोपभोगेन क्षपणासंभवात् न यथाव-
र्णितचरितस्यापि वर्तमानदेहपाते देहान्तरनिमित्ताभाव: श-
क्यते निश्चेतुम् । कर्मशेषसद्भावसिद्धिश्च तद्य इह रमणी-
यचरणा: ' ' ततः शेषेण' इत्यादिश्रुतिस्मृतिभ्य: । स्थादेतत
— नित्यनैमित्तिकानि तेषां क्षेपकाणि भविष्यन्तीति - तन्
न, विरोधाभावात्; सति हि विरोधे क्षेप्यक्षेपकभावो भव-
ति ; न च जन्मान्तरसंचितानां सुकृतानां नित्यनैमित्तिकैर-
स्ति विरोधः, शुद्धिरूपत्वाविशेषात् ; दुरितानां तु अशुद्धि-
रूपत्वात् सति विरोधे भवतु क्षपणम् ; न तु तावता देहा-
न्तरनिमित्ताभावसिद्धिः, सुकृतनिमित्तत्वोपपत्तेः, दुरित-
स्याप्यशेषक्षपणानवगमात् । न च नित्यनैमित्तिकानुष्ठानात्
प्रत्यवायानुत्पत्तिमात्रम्, न पुनः फलान्तरोत्पत्तिः इति प्रमा-
णमस्ति, फलान्तरस्याप्यनुनिष्पादिनः संभवात्; स्मरति हि
आपस्तम्बः - ' तद्यथा आम्र फलार्थे निमित्ते छायागन्धावनू-
पद्येते एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते' इति । न च
असति सम्यग्दर्शने सर्वात्मना काम्यप्रतिषिद्धवर्जनं ज-
न्मप्रायणान्तराले केनचित्प्रतिज्ञातुं शक्यम्, सुनिपुणा-
नामपि सूक्ष्मापराधदर्शनात् संशयितव्यं तु भवति ;
-
;