2026-05-06 05:22:06 by ambuda-bot
This page has not been fully proofread.
सू. १४ . ]
चतुर्थोऽध्यायः ।
८३७
पुरस्तात् । परस्माच्च अन्यत्वे जीवस्य 'तत्त्वमसि' इत्यादि -
शास्त्रबाधप्रसङ्गः । विकारावयवपक्षयोरपि समानोऽयं दोषः ।
विकारावयवयोस्तद्वतोऽनन्यत्वात् अदोष इति चेत्, न,
मुख्यैकत्वानुपपत्तेः । सर्वेषु च एतेषु पक्षेषु अनिर्मोक्षप्रसङ्गः,
संसार्यात्मत्वानिवृत्तेः ; निवृत्तौ वा स्वरूपनाशप्रसङ्गः, ब्रह्मा-
त्मत्वानभ्युपगमाच्च ॥
-----
- तदसत् ,
प्र-
यत्तु कैश्विज्जल्प्यते - नित्यानि नैमित्तिकानि च कर्मा-
ण्यनुष्ठीयन्ते प्रत्यवायानुत्पत्तये, काम्यानि प्रतिषिद्धानि च
परिहियन्ते स्वर्गनरकानवाप्तये, सांप्रतदेहोपभोग्यानि च क-
मण्युपभोगेनैव क्षिप्यन्ते - इत्यतो वर्तमानदेहपातादूर्ध्वं देहा-
न्तरप्रतिसंधानकारणाभावात् स्वरूपावस्थानलक्षणं कैवल्यं
विनापि ब्रह्मात्मतया एवंवृत्तस्य सेत्स्यतीति-
माणाभावात् । न ह्येतत् शास्त्रेण केनचित्प्रतिपादितम्-
मोक्षार्थी इत्थं समाचरेदिति । स्वमनीषया तु एतत्तर्कितम्-
यस्मात्कर्मनिमित्तः संसारः तस्मान्निमित्ताभावान्न भविष्यती-
ति । न च एतत् तर्कयितुं शक्यते, निमित्ताभावस्य दुर्झा -
त्वात् । बहूनि हि कर्माणि जात्यन्तरसंचितानि इष्टानिष्ट -
विपाकानि एकैकस्य जन्तो: संभाव्यन्ते । तेषां विरुद्धफला-
नां युगपदुपभोगासंभवात् कानिचिल्लब्धावसराणि इदं जन्म