Proofing

This page has not been fully proofread.

८३६
 
सूत्रभाष्ये
 
[पा. ३.
 
1
 
भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसं-
विशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म' इति च; एवमुत्पत्त्या-
दिश्रुतीनाम् ऐकात्म्यावगमपरत्वात् नानेकशक्तियोगो ब्रह्मण: ;
अतश्च गन्तव्यत्वानुपपत्ति: । 'न तस्य प्राणा उत्क्रामन्ति
'ब्रह्मैव सन्ब्रह्माप्येति' इति च परस्मिन्ब्रह्मणि गतिं निवा-
रयति ; तद्व्यख्यातम् ' स्पष्टो ह्येषाम् ' इत्यत्र ॥
 
विकारेणापि
 
गतिकल्पनायां च गन्ता जीवो गन्तव्यस्य ब्रह्मण: अव-
यवः विकारः अन्यो वा ततः स्यात्, अत्यन्ततादात्म्ये
गमनानुपपत्तेः । यद्येवम्, ततः किं स्यात् ? अत उच्यते-
यद्येकदेशः, तेन एकदेशिनो नित्यप्राप्तत्वात् न पुनर्ब्रह्मगम-
नमुपपद्यते; एकदेशैकदेशित्वकल्पना च ब्रह्मण्यनुपपन्ना,
निरवयवत्वप्रसिद्धेः । विकारपक्षेऽप्येतत्तुल्यम्
विकारिणो नित्यप्राप्तत्वात्; न हि घटो मृदात्मतां परित्यज्य
अवतिष्ठते, परित्यागे वा अभावप्राप्तेः । विकारावयवपक्षयोश्च
तद्वत: स्थिरत्वात् ब्रह्मण: संसारगमनमपि अनवक्लृप्तम् ।
अथ अन्य एव जीवो ब्रह्मणः सोऽणुः व्यापी मध्यमपरि-
माणो वा भवितुमर्हति ; व्यापित्वे गमनानुपपत्तिः ; मध्यम-
परिमाणत्वे च अनित्यत्वप्रसङ्गः ; अणुत्वे कृत्स्नशरीरवेदना-
नुपपत्तिः; प्रतिषिद्धे च अणुत्वमध्यमपरिमाणत्वे विस्तरेण