Proofing

This page has not been fully proofread.

८३४
 
6
 
सूत्रभाष्ये
 
[पा. ३.
 
य आत्मा सर्वान्तर: ' ' आत्मैवेदं सर्वम् ' 'ब्रह्मैवेदं विश्वमिदं
वरिष्ठम्' इत्यादिश्रुतिनिर्धारित विशेषम् तस्य गन्तव्यता न
कदाचिदप्युपपद्यते ; न हि गतमेव गम्यते ; अन्यो ह्यन्यद्च्छ-
तीति प्रसिद्धं लोके । ननु लोके गतस्यापि गन्तव्यता देशान्तर-
विशिष्टस्य दृष्टा-यथा पृथिवीस्थ एव पृथिवीं देशान्तरद्वारेण
गच्छति, तथा अनन्यत्वेऽपि बालस्य कालान्तरविशिष्टं
वार्धकं स्वात्मभूतमेव गन्तव्यं दृष्टम्, तद्वत् ब्रह्मणोऽपि
सर्वशक्त्युपेतत्वात् कथंचित् गन्तव्यता स्यादितिन,
प्रतिषिद्धसर्व विशेषत्वाद्ब्रह्मण:; 'निष्कलं निष्क्रियं शान्तं
निरवद्यं निरञ्जनम्' ' अस्थूलमनण्वह्रस्वमदीर्घम् ' ' स बा-
ह्याभ्यन्तरो ह्यजः स वा एष महानज आत्माजरोऽमरो-
ऽमृतोऽभ्यो ब्रह्म' ' स एष नेति नेत्यात्मा' इत्यादिश्रुति-
स्मृतिन्यायेभ्यो न देशकालादिविशेषयोगः परमात्मनि क-
ल्पयितुं शक्यते, येन भूप्रदेशवयोवस्थान्यायेनास्य गन्त-
व्यता स्यात्; भूवयसोस्तु प्रदेशावस्थादिविशेषयोगादुपपद्यते .
देशकालविशिष्टा गन्तव्यता । "जगदुत्पत्तिस्थितिप्रलयहेतुत्व-
श्रुतेरनेकशक्तित्वं ब्रह्मण इति चेत्, न विशेषनिराकरण-
श्रुतीनामनन्यार्थत्वात् । उत्पत्त्यादिश्रुतीनामपि समानमन-
न्यार्थत्वमिति चेत् न, तासामेकत्वप्रतिपादनपरत्वात् ;
 
''
 
,
 
"
 
"