Proofing

This page has not been fully proofread.

सू. १४.]
 
चतुर्थोऽध्यायः ।
 
८३३
 
ब्रह्मण: प्रभुविमितं हिरण्मयम्' इत्यत्र । पदेरपि च गत्य-
र्थत्वात् मार्गापेक्षता अवसीयते । तस्मात्परब्रह्मविषया गति-
श्रुतय इति पक्षान्तरम् । तावेतौ द्वौ पक्षावाचार्येण सूत्रितौ-
गत्युपपत्त्यादिभिरेकः, मुख्यत्वादिभिरपरः । तत्र गत्युपप-
त्त्यादयः प्रभवन्ति मुख्यत्वादीनाभासयितुम्, न तु मुख्य-
त्वादयो गत्युपपत्त्यादीनन् -- इति आद्य एव सिद्धान्तो व्या-
ख्यातः, द्वितीयस्तु पूर्वपक्ष: । न ह्यसत्यपि संभवे मुख्यस्यै-
वार्थस्य ग्रहणमिति कचिदाज्ञापयिता विद्यते । परविद्याप्रकर-
णेऽपि च तत्स्तुत्यर्थे विद्यान्तराश्रयगत्यनुकीर्तनमुपपद्यते-
' विष्वङ्ङन्या उत्क्रमणे भवन्ति' इतिवत् । ' प्रजापतेः सभां
वेश्म प्रपद्ये' इति तु पूर्ववाक्यविच्छेदेन कार्येऽपि प्रतिप-
त्यभिसंधिर्न विरुध्यते । सगुणेऽपि च ब्रह्मणि सर्वात्मत्व-
संकीर्तनम् 'सर्वकर्मा सर्वकाम:' इत्यादिवत् अवकल्पते ।
तस्मादपरविषया एव गतिश्रुतयः ॥
 
केचित्पुन: पूर्वाणि पूर्वपक्षसूत्राणि भवन्ति उत्तराणि
सिद्धान्तसूत्राणि - इत्येतां व्यवस्थामनुरुध्यमानाः परविषया
एव गतिश्रुती: प्रतिष्ठापयन्ति ; तत् अनुपपन्नम्, गन्तव्य-
त्वानुपपत्तेर्ब्रह्मणः ; यत्सर्वगतं सर्वान्तरं सर्वात्मकं च परं
ब्रह्म 'आकाशवत्सर्वगतश्च नित्य: ' ' यत्साक्षादपरोक्षाद्ब्रह्म '