2026-05-06 05:22:03 by ambuda-bot
This page has not been fully proofread.
८३२
सूत्रभाष्ये
[पा. ३.
ब्रह्म प्रापयतीति मन्यते ; कुत: ? मुख्यत्वात् । परं हि
ब्रह्म ब्रह्मशब्दस्य मुख्यमालम्बनम्, गौणमपरम् ; मुख्यगौ-
योश्च मुख्ये संप्रत्ययो भवति ॥
दर्शनाच्च ॥ १३ ॥
' तयोर्ध्वमायन्नमृतत्वमेति' इति च गतिपूर्वक ममृतत्वं'
दर्शयति ; अमृतत्वं च परस्मिन्ब्रह्मण्युपपद्यते, न कार्ये, वि-
नाशित्वात्कार्य-' अथ यत्रान्यत्पश्यति तदल्पं तन्मर्त्यम्'
इति प्रवचनात् परविषयैव च एषा गतिः कठवल्लीषु पठ्यते ;
न हि तत्र विद्यान्तरप्रक्रमोऽस्ति - ' अन्यत्र धर्मादन्यत्राध-
र्मात्' इति परस्यैव ब्रह्मण: प्रक्रान्तत्वात् ॥
'
,
न च कार्ये प्रतिपत्त्यभिसंधिः ॥ १४ ॥
अपि च ' प्रजापतेः सभां वेश्म प्रपद्ये ' इति नायं कार्य-
विषय: प्रतिपत्त्यभिसंधिः, 'नामरूपयोर्निर्वहिता ते यदन्तरा
तद्ब्रह्म' इति कार्यविलक्षणस्य परस्यैव ब्रह्मणः प्रकृतत्वात् ;
,
'यशोऽहं भवामि ब्राह्मणानाम्' इति च सर्वात्मत्वेनोपक्रम-
णात् ' न तस्य प्रतिमा अस्ति यस्य नाम महद्यश:' इति
च परस्यैव ब्रह्मणो यशोनामत्वप्रसिद्धेः । सा चेयं वेश्म-
प्रतिपत्तिर्गतिपूर्विका हार्दविद्यायामुदिता - ' तदपराजिता पू-