2026-05-06 05:22:01 by ambuda-bot
This page has not been fully proofread.
सू. १२.]
चतुर्थोऽध्यायः ।
स्ति - ' तयोर्ध्वमायन्नमृतत्वमेति' इति च; अत्र ब्रूमः -
कार्यात्यये तदध्यक्षेण सहातः पर-
मभिधानात् ॥ १० ॥
८३१.
कार्यब्रह्मलोक प्रलय प्रत्युपस्थाने सति तत्रैव उत्पन्न सम्य-
ग्दर्शनाः सन्तः, तदध्यक्षेण हिरण्यगर्भेण सह अतः परं प-
रिशुद्धं विष्णोः परमं पदं प्रतिपद्यन्ते — इतीत्थं क्रममुक्ति:
अनावृत्त्यादिश्रुत्यभिधानेभ्यो ऽभ्युपगन्तव्या । न ह्यसैव
गतिपूर्विका परप्राप्तिः संभवतीत्युपपादितम् ॥
स्मृतेश्च ॥ ११ ॥
स्मृतिरप्येतमर्थमनुजानाति — 'ब्रह्मणा सह ते सर्वे सं-
प्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पद-
म' इति । तस्मात्कार्यब्रह्मविषया एव गतिश्रुतय: इति
सिद्धान्तः ॥
कं पुनः पूर्वपक्षमाशङ्कथ अयं सिद्धान्तः प्रतिष्ठापित:
' कार्ये बादरि:' इत्यादिनेति स इदानीं सूत्रैरेवोपदर्श्यते-
परं जैमिनिर्मुख्यत्वात् ॥ १२ ॥
जैमिनिस्त्वाचार्य: 'स एनान्ब्रह्म गमयति' इत्यत्र पर में- "