Proofing

This page has not been fully proofread.

८३०
 
सूत्रभाष्ये :..
 
[पा. ३.
 
गतिरिति गम्यते ; न हि बहुवचनेन विशेषणं परस्मिन्ब्रह्म-
एयवकल्पते; कार्ये तु अवस्थाभेदोपपत्तेः संभवति बहुवच
नम् । लोकश्रुतिरपि विकारगोचरायामेव संनिवेशविशिष्टायां
भोगभूमावासी; गौणी त्वन्यत्र 'ब्रह्मैव लोक एष
सम्राट्' इत्यादिषु । अधिकरणाधिकर्तव्यनिर्देशोऽपि पर-
स्मिन्ब्रह्मणि अनाञ्जसः स्यात् । तस्मात् कार्यविषयमेवेदं
नयनम् ॥
 
ननु कार्यविषयेऽपि ब्रह्मशब्दो नोपपद्यते, समन्वये हि
समस्तस्य जगतो जन्मादिकारणं ब्रह्मेति स्थापितम् - इत्यत्रो -
च्यते-
 
सामीप्यात्तु तद्व्यपदेशः ॥ ९ ॥
 
तु शब्द आशङ्काव्यावृत्त्यर्थः ; परब्रह्मसामीप्यात् अपरस्य
ब्रह्मणः,
तस्मिन्नपि ब्रह्मशब्दप्रयोगो न विरुध्यते । परमेव
हि ब्रह्म विशुद्धोपाधिसंबन्धं क्वचित्कैश्चिद्विकारधर्मैर्मनोमयत्वा-
दिभिः उपासनाय उपदिश्यमानम् अपरमिति स्थितिः ॥
 
ननु कार्यप्राप्तौ अनावृत्तिश्रवणं न घटते; न हि परस्मा-
ब्रह्मणोऽन्यव कचिन्नित्यतां संभावयन्ति ; दर्शयति च देव-
यानेन पथा प्रस्थितानामनावृत्तिम्- ' एतेन प्रतिपद्यमाना इमं
मानवमावर्त नावर्तन्ते' इति, तेषामिह न पुनरावृत्तिर-