2026-05-06 05:22:00 by ambuda-bot
This page has not been fully proofread.
८२८
सूत्रभाष्ये
[ पा. ३.
न
हेतुना आपूर्यमाणपक्ष मिति; तथा च लोके प्रसिद्धेष्वप्या-
तिवाहिकेषु एवजातीयक उपदेशो दृश्यते गच्छ त्वम् इतो
बलवर्माणं ततो जयसिंहं ततः कृष्णगुप्तमिति । अपि च
उपक्रमे 'तेऽचिरभिसंभवन्ति' इति संबन्धमात्रमुक्तम्,
संबन्धविशेषः कश्चित् ; उपसंहारे तु स एतान्ब्रह्म गम-
यति' इति संबन्धविशेषः अतिवाह्यातिवाहकत्वलक्षण उक्तः ;
तेन स एवोपक्रमेऽपीति निर्धार्यते । संपिण्डितकरणत्वादेव
च गन्तॄणां न तत्र भोगसंभव:; लोकशब्दस्तु अनुपभुञ्जा-
नेष्वपि गन्तृषु गमयितुं शक्यते, अन्येषां तल्लोकवासिनां
भोगभूमित्वात् । अतः अग्निस्वामिकं लोकं प्राप्तः अग्निना
अतिवाह्यते, वायुस्वामिकं प्राप्तो वायुना -- इति योजयित-
व्यम् ॥
कथं पुनरातिवाहिकत्वपक्षे वरुणादिषु तत्संभव : ? वि-
तो धि वरुणादय उपक्षिप्ताः, विद्युतस्त्वनन्तरम् आ
ब्रह्मप्राप्तेः अमानवस्यैव पुरुषस्य गमयितृत्वं श्रुतम् - इत्यत
उत्तरं पठति-
-
वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ६ ॥
ततो विद्युदभिसंभवनादूर्ध्वं विद्युदनन्तरवर्तिनैवामानवेन
पुरुषेण वरुणलोकादिष्वतिवाह्यमाना ब्रह्मलोकं गच्छन्तीत्य-