Proofing

This page has not been fully proofread.

सू. ५.]
 
चतुर्थोऽध्यायः ।
 
८२७
 
सो विद्युतं तत्पुरुषोऽमानवः स एतान्ब्रह्म गमयति' इति
सिद्धवद्गमयितृत्वं दर्शयति ; तद्वचनं तद्विषयमेवोपक्षीणमिति
चेन् न, प्राप्त मानवत्वनिवृत्तिपरत्वाद्विशेषणस्य ; यद्यर्चिरा-
दिपु पुरुषा गमयितारः प्राप्ताः ते च मानवाः,
ततो युक्तं
तन्निवृत्त्यर्थं पुरुषविशेषणम्- अमानव इति ॥
 
ननु तल्लिङ्गमात्रमगमकम, न्यायाभावात्; नैष दोष:-
उभयव्यामोहात्तत्सिद्धेः ॥ ५ ॥
 
ये तावदर्चिरादिमार्गगाः ते देहवियोगात् संपिण्डितक-
रणग्रामा इति अस्वतन्त्राः, अचिरादीनामप्यचेतनत्वादस्वा-
तन्त्र्यम् - इत्यतः अचिराद्यभिमानिनश्चेतना देवताविशेषा
अतियात्रायां नियुक्ता इति गम्यते ; लोकेऽपि हि मत्तमू-
छितादय: संपिण्डितकरणाः परप्रयुक्तवर्त्मानो भवन्ति ।
अनवस्थितत्वादव्यचिरादीनां न मार्गलक्षणत्वोपपत्तिः; न
हि रात्रौ प्रेतस्य अहः स्वरूपाभिसंभव उपपद्यते ; न च
प्रतिपालनमस्तीत्युक्तं पुरस्तात्; ध्रुवत्वात्तु देवतात्मनां नायं
दोषो भवति । अचिरादिशब्दता च एषाम् अचिराद्यभिमाना-
दुपपद्यते ;
' अर्चिषोऽह : ' इत्यादिनिर्देशस्तु आतिवाहिक-
त्वेऽपि न विरुध्यते - अर्चिषा हेतुना अहरभिसंभवति,
 
अह्ना