Proofing

This page has not been fully proofread.

८२६.
 
सूत्रभाष्ये
 
[पा.. ३.
 
णादीनामन्ते एव निवेशः, वैशेषिकस्थानाभावात् विद्युच्च
 
अन्त्या अचिरादौ वर्त्मनि ॥
 
आतिवाहिका स्तल्लिङ्गात् ॥ ४ ॥
 
तेष्वेव अर्चिरादिषु संशय: - किमेतानि मार्गचिह्नानि,
उत भोगभूमयः, अथवा नेतारो गन्तृणामिति । तत्र मार्ग-
४. आतिवाहिका - लक्षणभूता अचिरादय इति तावत्प्राप्तम्,
धिकरणम् । तत्स्वरूपत्वादुपदेशस्य ; यथा हि लोके
कश्चिद्वामं नगरं वा प्रतिष्ठासमानोऽनुशिष्यते - गच्छ इतस्त्व-
ममुं गिरिं ततो न्यग्रोधं ततो नदीं ततो ग्रामं ततो नगरं वा
प्राप्स्यसीति - एवमिहापि 'अर्चिषोऽहरह आपूर्यमाणपक्षम् '
इत्याद्याह । अथवा भोगभूमय इति प्राप्तम् ; तथाहि लोक-
शब्देन अग्न्यादीननुबध्नाति - ' अग्निलोकमागच्छति ' इत्या-
दि; लोकशब्दश्च प्राणिनां भोगायतनेषु भाष्यते- 'मनुष्य-
लोकः पितृलोको देवलोक : ' इति च; तथा च ब्राह्मणम्-
'अहोरात्रेषु ते लोकेषु सज्जन्ते' इत्यादि । तस्मान्नाति वाहि-
का अचिरादयः । अचेतनत्वादप्येषामातिवाहिकत्वानुपपत्तिः;
चेतना हि लोके राजनियुक्ताः पुरुषा दुर्गेषु मार्गेष्वतिवा-
ह्यान् अतिवाहयन्तीति । एवं प्राप्ते, ब्रूमः -- आतिवाहिका
एवैते भवितुमर्हन्ति ; कुत: ? तल्लिङ्गात् ; तथा हि- 'चन्द्रम