Proofing

This page has not been fully proofread.

सू. ३.]
 
चतुर्थोऽध्यायः ।
 
८२५
 
क्रियते एतं एतं च आगच्छतीति; इतरत्र पुनः, वायुप्रत्तेन
रथचक्रमात्रेण च्छिद्रेण ऊर्ध्वमाक्रम्य आदित्यमागच्छतीति-
अवगम्यते क्रमः ; तस्मात् सूक्तम् अविशेषविशेषाभ्यामिति ।
वाजसनेयिनस्तु 'मासेभ्यो देवलोकं देवलोकादादित्यम्'
इति समामनन्ति ; तत्र आदित्यानन्तर्याय देवलोकाद्वायुम-
भिसंभवेयुः ; 'वायुमब्दात्' इति तु च्छन्दोगश्रुत्यपेक्षयो-
क्तम् । छान्दोग्यवाजसनेयकयोस्तु एकत्र देवलोको न विद्यते,
परत्र संवत्सरः; तत्र श्रुतिद्वयप्रत्ययात् उभावपि उभयत्र
प्रथयितव्यौ ; तत्रापि माससंबन्धात्संवत्सरः पूर्व: पश्चिमो
देवलोक इति विवेक्तव्यम् ॥
 
6
 
तडितोऽधि वरुणः संबन्धात् ॥ ३ ॥
 
आदित्याञ्चन्द्रमसं चन्द्रमसो विद्युतम्' इत्यस्या विद्युत
उपरिष्टात् 'स वरुणलोकम्' इत्ययं वरुणः संबध्येत ; अस्ति
३. तडिदधि- हि संबन्धो विद्युद्वरुणयोः यदा हि
 
करणम् । विशाला विद्युतस्तीत्रस्तनितनिर्घोषा जीमू-
तोदरेषु प्रनृत्यन्ति, अथ आपः प्रपतन्ति ; 'विद्योतते स्तन -
यति वर्षिष्यति वा' इति च ब्राह्मणम्; अपां च अधिपति -
रुण इति श्रुतिस्मृति प्रसिद्धिः ; वरुणादधि इन्द्र प्रजापती
स्थानान्तराभावात् पाठसामर्थ्याच्च; आगन्तुकत्वादपि वरु-