Proofing

This page has not been fully proofread.

सू. २. ]
 
चतुर्थोऽध्यायः ।
 
८२३
 
ब्रह्मलोकं ब्रह्मचर्येणानुविन्दति' इति च तत्र तत्र तदेव एकं
फलं ब्रह्मलोकप्रामिलक्षणं प्रदश्यते । यत्तु 'एतैरेवं' इत्यव -
धारणम अचिराद्याश्रयणे न स्यादिति, नैष दोष:, रश्मि-
प्राप्तिपरत्वादस्य न हि एक एव शब्दो रश्मीश्च प्रापयितुमर्ह
ति, अचिरादा व्यावर्तयितुम; तस्मान रश्मिसंबन्ध एवा-
यमवधार्यत इति द्रष्टव्यम् । त्वरावचनं तु अचिराद्यपेक्षाया-
मपि गन्तव्यान्तरापेक्षया प्रयार्थत्वात नोपरुध्यते - यथा
निमेपमात्रेणात्रागम्यत इति । अपि च ' अथैतयोः पथोर्न क-
तरेणचन' इति मार्गद्वयभ्रष्टानां कष्टं तृतीयं स्थानमाचक्षाणा
पितृयाणव्यतिरिक्तमेकमेव देवयानमर्चिरादिपर्वाणं पन्थानं
प्रथयति ; भूयांम्यर्चिरादिसृतौ मार्गपर्वाणि, अल्पीयांसि त्व-
न्यत्र ; भूयसां च आनुगुण्येन अल्पीयसां नयनं न्याय्यमि-
त्यतोSपि अर्चिरादिना तत्प्रथितेरित्युक्तम् ॥
 
1
 
वायुमब्दादविशेषविशेषाभ्याम् ॥ २ ॥
 
केन पुनः संनिवेशविशेषेण गतिविशेषणानाम् इतरेतर -
विशेषणविशेष्यभावः - इति तदेतत् सुहृद्भूत्वा आचार्यो प्रथ
 
२. वाय्वधि-
 
करणम् ।
 
यति
 
6
1 स एतं देवयानं पन्थानमासाद्या-
झिलोकमागच्छति स वायुलोकं स वरुण-
 
लोक स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम्' इति