2026-05-06 05:21:52 by ambuda-bot
This page has not been fully proofread.
८१४
सूत्रभाष्ये
."
[पा. २.
स्य हृदयस्यायं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति
चक्षुष्टो वा मूर्ध्ना वान्येभ्यो वा शरीरदेशेभ्यः' इति । सा
किमनियमेनैव विद्वदविदुषोर्भवति, अथास्ति कश्चिद्विदुषो वि-
शेषनियम:- इति विचिकित्सायाम्, श्रुत्यविशेषादनियमप्राप्तौ,
आचष्टे - समानेऽपि हि विद्वदविदुषोहृदयाग्रप्रद्योतने तत्प्र-
काशितद्वारत्वे च मूर्धस्थानादेव विद्वान्निष्क्रामति, स्थाना-
न्तरेभ्यस्तु इतरे; कुत: ? विद्यासामर्थ्यात् ; यदि विद्वानपि
इतरवत् यतः कुतश्चिद्देहदेशात् उत्क्रामेत् नैव उत्कृष्टं लोकं
लभेत, तत्र अनर्थिव विद्या स्यात् । तच्छेषगत्यनुस्मृतियो-
गाच्च - विद्याशेषभूता च मूर्धन्यनाडीसंबद्धा गति: अनुशी-
लयितव्या विद्याविशेषेषु विहिता; तामभ्यस्यन् तयैव प्रति-
ष्ठत इति युक्तम् । तस्मात् हृदयालयेन ब्रह्मणा सूपासितेन
अनुगृहीतः तद्भावं समापन विद्वान् मूर्धन्ययैव शताधिकया
शतादतिरिक्तया एकशततम्या नाड्या निष्क्रामति, इतरा-
भिरितरे । तथा हि हार्दविद्यां प्रकृत्य समामनन्ति - " शतं
चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति '
इति ॥
रम्यनुसारी ॥ १८ ॥