Proofing

This page has not been fully proofread.

८१२
 
सूत्रभाष्ये
 
[पा. २.
 
सर्वभूतग़तोऽभवत्' इति । तस्मादभाव: परंब्रह्मविदो
गत्युत्क्रान्त्योः ; गतिश्रुतीनां तु विषयमुपरिष्टाद्व्याख्या-
 
स्यामः ॥
 
तानि परे तथा ह्याह ॥ १५ ॥
 
तानि पुन: प्राणशब्दोदितानि इन्द्रियाणि भूतानि च
परब्रह्मविदः तस्मिन्नेव परस्मिन्नात्मनि प्रलीयन्ते ; कस्मात् ?
तथा हि आह श्रुति:-
 
७. वागादि-
 
लयाधि-
 

 
एवमेवास्य परिद्र-
 
टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं
 
करणम् । प्राप्यास्तं गच्छन्ति' इति । ननु ' गता:
कलाः पञ्चदश प्रतिष्ठा:' इति विद्वद्विषयैवापरा श्रुतिः
परस्मादात्मनोऽन्यत्रापि कलानां प्रलयम् आह स्म
न; सा खलु व्यवहारापेक्षा - पार्थिवाद्याः कलाः पृथि-
व्यादीरेव स्वप्रकृतीरपियन्तीति; इतरा तु विद्वत्प्रतिपत्त्य -
पेक्षा - कृत्स्नं कलाजातं परब्रह्मविदो ब्रह्मैव संपद्यत इति;
तस्माददोषः ॥
 
अविभागो वचनात् ॥ १६ ॥
 
स पुनर्विदुषः कलाप्रलयः किम् इतरेषामिव सावशेषो
भवति, आहोस्विन्निरवशेष इति । तत्र प्रलयसामान्यात्