Proofing

This page has not been fully proofread.

सू. १४ . ]
 
चतुर्थोऽध्यायः ।
 
८११
 
इति उपसंहृत्य अविद्वत्कथाम्, 'अथाकामयमान:' इति
व्यपदिश्य विद्वांसम् — यदि तद्विषयेऽप्युत्क्रान्तिमेव प्राप-
येत्, असमञ्जस एव व्यपदेशः स्यात्; तस्मात् अविद्वद्वि-
ये प्राप्तयोर्गत्युत्कान्त्योः विद्वद्विषये प्रतिषेधः - इत्येवमेव
व्याख्येयम्, व्यपदेशार्थवत्त्वाय । न च ब्रह्मविदः सर्वगत-
ब्रह्मात्मभूतस्य प्रक्षीणकामकर्मणः उत्क्रान्तिः गतिर्वा उपप-
द्यते, निमित्ताभावात् । ' अत्र ब्रह्म समश्नुते ' इति च एवं-
जातीयकाः श्रुतयो गत्युत्क्रान्त्योरभावं सूचयन्ति ॥
 
स्मर्यते च ॥ १४ ॥
 
स्मर्यतेऽपि च महाभारते गत्युत्कान्त्योरभावः - 'सर्व-
भूतात्मभूतस्य सम्यग्भूतानि पश्यतः । देवा अपि मार्गे
मुयन्त्यपदस्य पदैषिणः' इति । ननु गतिरपि ब्रह्मविद :
सर्वगतब्रह्मात्मभूतस्य स्मर्यते - ' शुकः किल वैयासकिर्मुमु-
क्षुरादित्यमण्डलमभिप्रतस्थे पित्रा चानुगम्याहूतो भो इति
प्रतिशुश्राव ' इति न; सशरीरस्यैव अयं योगबलेन वि-
शिष्टदेशप्राप्तिपूर्वकः शरीरोत्सर्ग इति द्रष्टव्यम्, सर्वभूतह-
श्यत्वाद्युपन्यासात ; न हि अशरीरं गच्छन्तं सर्वभूतानि
द्रष्टुं शक्नुयुः ; तथा च तत्रैवोपसंहृतम् - " शुकस्तु मारु -
ताच्छीघ्रां गतिं कृत्वान्तरिक्षगः । दर्शयित्वा प्रभावं स्वं
 
- -