2026-05-06 05:21:50 by ambuda-bot
This page has not been fully proofread.
८१०
सूत्रभाष्ये
[पा. २.
५
6
स
न
देहापादान एव उत्क्रान्तिप्रतिषेध एकेषां समाम्नातॄणां स्पष्ट
उपलभ्यते । तथा हि-- आर्तभागप्रश्ने 'यत्रायं पुरुषो
म्रियत उदस्मात्प्राणा: क्रामन्त्याहो नेति' इत्यत्र, 'नेति हो-
वाच याज्ञवल्क्यः' इत्यनुत्क्रान्तिपक्षं परिगृह्य, न तर्ह्ययम-
नुत्क्रान्तेषु प्राणेषु मृत: - इत्यस्यामाशङ्कायाम् ' अत्रैव सम-
वनीयन्ते ' इति प्रविलयं प्राणानां प्रतिज्ञाय, तत्सिद्धये
उच्छ्रयत्याध्मायत्याध्मातो मृतः शेते' इति स-शब्दपरामृ-
ष्टस्य प्रकृतस्य उत्क्रान्त्यवधेः उच्छ्रयनादीनि समामनन्ति ;
देहस्य च एतानि स्युः न देहिनः ; तत्सामान्यात्,
तस्मात्प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते ' इत्यत्रापि -- अभे-
दोपचारेण देहापादानस्यैव उत्क्रमणस्य प्रतिषेधः - यद्यपि
प्राधान्यं देहिनः -- इति व्याख्येयम्, येषां पञ्चमीपाठः ।
येषां तु षष्ठीपाठः, तेषां विद्वत्संबन्धिनी उत्क्रान्ति: प्रति-
षिध्यत इति प्राप्तोत्कान्तिप्रतिषेधार्थत्वात् अस्य वाक्यस्य,
देहापादानैव सा प्रतिषिद्धा भवति देहादुत्क्रान्तिः प्राप्ता,
न देहिनः ; अपि च 'चक्षुष्टो वा मूर्ध्नो वान्येभ्यो
वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्का-
मन्तं सर्वे प्राणा अनूत्क्रामन्ति' इत्येवमविद्वद्विषये सप्रपञ्च-
मुत्क्रमणं संसारगमनं च दर्शयित्वा, ' इति नु कामयमानः
"