Proofing

This page has not been fully proofread.

सू. १३.]
 
चतुर्थोऽध्यायः ।
 
८०९
 
तत्वे गत्युत्क्रान्त्योरभावोऽभ्युपगत:; तत्रापि केनचित्कारणेन
६. प्रतिषेधा- उत्क्रान्तिमाशङ्कय प्रतिषेधति — ' अथा-
 
,
 
धिकरणम् । कामयमानो योऽकामो निष्काम आप्तकाम
आत्मकामो भवति न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्न-
ह्माप्येति' इति । अतः परविद्याविषयात्प्रतिषेधात् न परब्रह्म-
विदो देहात् प्राणानामुत्क्रान्तिरस्तीति चेत्, नेत्युच्यते, यतः
शारीरादात्मन एष उत्क्रान्तिप्रतिषेधः प्राणानाम, न शरीरात् ।
कथमवगम्यते ? ' न तस्मात्प्राणा उत्क्रामन्ति ' इति शाखान्तरे
पञ्चमीप्रयोगात्; संबन्धसामान्यविषया हि षष्ठी शाखान्तर-
गतया पञ्चम्या संबन्धविशेषे व्यवस्थाप्यते ; ' तस्मात्' इति
च प्राधान्यात् अभ्युदयनिःश्रेयसाधिकृतो देही संबध्यते,
न देहः ; न तस्मादुञ्चिक्रमिषोर्जीवात् प्राणा अपक्रामन्ति,
सहैव तेन भवन्ति -- इत्यर्थः । सप्राणस्य च प्रवसतो भव-
त्युत्क्रान्तिर्देहादिति ॥
 
एवं प्राप्ते, प्रत्युच्यते-
 
स्पष्टो ह्येकेषाम् ॥ १३ ॥
 
नैतदस्ति यदुक्तम्, परब्रह्मविदोऽपि देहात् अस्त्यु-
क्रान्ति: उत्क्रान्तिप्रतिषेधस्य देह्यपादानत्वादिति यतो