Proofing

This page has not been fully proofread.

८०८
 
सूत्रभाष्ये
 
[ पा. २.
 
आश्रयभूतं स्वरूपतः परिमाणतञ्च सूक्ष्मं भवितुमर्हति ।
तथा हि नाडीनिष्क्रमणश्रवणादिभ्योऽस्य सौक्ष्म्यमुपलभ्यते ।
तत्र तनुत्वात्संचारोपपत्तिः ; स्वच्छत्वाच्च अप्रतिघातोपपत्ति: ;
अत एव च देहान्निर्गच्छत् पार्श्वस्थैर्नोपलभ्यते ॥
 
नोपमर्देनातः ॥ १० ॥
 
अत एव च सूक्ष्मत्वात् नाथ स्थूलस्य शरीरस्योपमर्देन
दाहादिनिमित्तेन इतरत्सूक्ष्मं शरीरमुपमृद्यते ॥
 
अस्यैव चोपपत्तेरेष ऊष्मा ॥ ११ ॥
 
अस्यैव च सूक्ष्मस्य शरीरस्य एष ऊष्मा,
यमेतस्मिञ्जीव-
च्छरीरे संस्पर्शेनोष्माणं विजानन्ति । तथा हि मृतावस्थायाम्
अवस्थितेऽपि देहे विद्यमानेष्वपि च रूपादिषु देहगुणेषु, न
ऊष्मा उपलभ्यते, जीवदवस्थायामेव तु उपलभ्यते-
इत्यत उपपद्यते प्रसिद्धशरीरव्यतिरिक्तव्यपाश्रय एव एष ऊ-
मेति । तथा च श्रुतिः - ' उष्ण एव जीविष्यशीतो
मरिष्यन् ' इति ॥
 
प्रतिषेधादिति चेन्न शारीरात् ॥ १२ ॥
 
'अमृतत्वं चानुपोष्य' इत्यतो विशेषणात् आत्यन्तिकेऽमृ-