Proofing

This page has not been fully proofread.

सू. ९. ]
 
चतुर्थोऽध्यायः ।
 
८०७
 
'तेजः परस्यां देवतायाम्' इत्यत्र प्रकरणसामर्थ्यात् तत्
यथा प्रकृतं तेजः साध्यक्षं सप्राणं सकरणग्रामं भूतान्तरस-
५. संसारव्यपदे- हितं प्रयतः पुंसः परस्यां देवतायां संपद्यत
 
शाधिकरणम् । इत्येतदुक्तं भवति ; कीदृशी पुनरियं संप-
त्तिः स्यादिति चिन्त्यते । तत्र आत्यन्तिक एव तावत् स्वरू-
पप्रविलय इति प्राप्तम्, तत्प्रकृतित्वोपपत्तेः; सर्वस्य हि
जनमतो वस्तुजातस्य प्रकृतिः परा देवतेति प्रतिष्ठापितम् ;
तस्मात् आत्यन्तिकी इयमविभागापत्तिरिति । एवं प्राप्ते, ब्रूमः
— तत् तेजआदि भूतसूक्ष्मं श्रोत्रादिकरणाश्रयभूतम् आपीते:
आसंसारमोक्षात् सम्यग्ज्ञाननिमित्तात् अवतिष्ठते – 'योनि-
मन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति
यथाकर्म यथाश्रुतम्' इत्यादिसंसारव्यपदेशात्; अन्यथा हि
सर्वः प्रायणसमय एव उपाधिप्रत्यस्तमयादत्यन्तं ब्रह्म संपद्येत,
तत्र विधिशास्त्रमनर्थकं स्यात्, विद्याशास्त्रं च; मिथ्याज्ञान-
निमित्तश्च बन्धो न सम्यग्ज्ञानादृते विस्रंसितुमर्हति ; तस्मात्
तत्प्रकृतित्वेऽपि सुषुप्तिप्रलयवत् बीजभावावशेषैव एषा सत्सं-
पत्तिरिति ॥
 
सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ ९ ॥
 
तच इतरभूतसहितं तेजो जीवस्य अस्माच्छरीरात्प्रवसत