2026-05-06 05:21:46 by ambuda-bot
This page has not been fully proofread.
८०६
सूत्रभाष्ये
[पा. २
योऽनुकीर्त्यते विद्याप्रकरणेऽपि प्रतिपिपादयिषितवस्तुप्रतिपा-
दनानुगुण्येन, न तु विदुषो विशेषवन्तो विधित्स्यन्ते ; एवम
इयमपि उत्कान्तिः महाजनगतैवानुकीर्त्यते, यस्यां परस्यां
देवतायां पुरुषस्य प्रयत: तेजः संपद्यते स आत्मा तत्त्वम-
सि - इत्येतत्प्रतिपादयितुम् । प्रतिषिद्धा च एषा विदुष:-
न तस्य प्राणा उत्क्रामन्ति' इति । तस्मात् अविदुष एवै -
6
षेति ॥
एवं प्राप्ते, ब्रूमः
:- समाना चैषा उत्क्रान्ति : ' वाङ्मनसि '
इत्याद्या विद्वदविदुषोः आसृत्युपक्रमात् भवितुमर्हति, अवि-
शेषश्रवणात्; अविद्वान् देहबीजभूतानि भूतसूक्ष्माण्याश्रित्य
कर्मप्रयुक्तो देहग्रहणमनुभवन् संसरति, विद्वांस्तु ज्ञानप्रका-
शितं मोक्षनाडीद्वारमाश्रयते तदेतत् 'आमृत्युपक्रमात् '
इत्युक्तम् । ननु अमृतत्वं विदुषा प्राप्तव्यम्, न च तदेशा-
न्तरायत्तम्, तत्र कुतो भूताश्रयत्वं मृत्युपक्रमो वेति- अ-
त्रोच्यते- अनुपोष्य च, इदम्, अदग्ध्वा अत्यन्तमविद्या-
दीन्क्लेशान, अपरविद्यासामर्थ्यात् आपेक्षिकममृतत्वं प्रेप्सते
संभवति तत्र मृत्युपक्रमः ; भूताश्रयत्वं च न हि निराश्र-
याणां प्राणानां गतिरुपपद्यते तस्माददोषः ॥
तदापीतेः संसारव्यपदेशात् ॥ ८ ॥