2026-05-06 05:21:48 by ambuda-bot
This page has not been fully proofread.
सू. ७.]
चतुर्थोऽध्यायः ।
.८०५
पुरुषो भवति' इत्युपक्रम्य श्रुत्यन्तरं कर्माश्रयतां निरूपयति-
6
,
तौह यदूचतुः कर्म हैव तदूचतुरथ ह यत्प्रशशंसतुः कर्म
हैव तत्प्रशशंसतुः' इति; अत्रोच्यते - तत्र कर्मप्रयुक्तस्य
ग्रहातिग्रहसंज्ञकस्य इन्द्रियविषयात्मकस्य बन्धनस्य प्रवृत्ति -
रिति कर्माश्रयतोक्ता ; इह पुनः भूतोपादानाद्देहान्तरोत्पत्ति-
रिति भूताश्रयत्वमुक्तम् ; प्रशंसाशब्दादपि तत्र प्राधान्यमात्रं
कर्मणः प्रदर्शितम्, न त्वाश्रयान्तरं निवारितम् ; तस्मादवि-
रोधः ॥
समाना चामृत्युपक्रमादमृतत्वं
चानुपोष्य ॥ ७ ॥
सेयमुत्क्रान्तिः किं विद्वदविदुषोः समाना, किं वा विशे-
षवती - इति विशयानानां विशेषवतीति तावत्प्राप्तम् । भूता-
श्रयविशिष्टा ह्येषा पुनर्भवाय च भूतान्या-
४. आसृत्युपक-
माधिकरणम् । श्रीयन्ते ; न च विदुषः पुनर्भवः संभवति ;
अमृतत्वं हि विद्वानश्नुते इति स्थिति:; तस्मादविदुषं
एव एषा उत्क्रान्ति: । ननु विद्याप्रकरणे समान्नानात् विदुष
एव एषा भवेत् न, स्वापादिवत् यथाप्राप्तानुकीर्तनात् ;
यथा हि 'यत्रैतत्पुरुषः स्वपिति नाम ' ' अशिशिषति नाम
' पिपासति नाम' इति च सर्वप्राणिसाधारणा एव स्वापाद-
"