Proofing

This page has not been fully proofread.

८०४
 
"
 
सूत्रभाष्ये
 
[पा. २.
 
यो-
 
दर्शयति न प्राणसंपृक्तस्याध्यक्षस्य -- नैप दोष:, सो-
Sध्यक्षे- इति अध्यक्षस्याप्यन्तराल उपसंख्यातत्वात् ;
sपि हि सुन्नान्मथुरां गत्वा मथुरायाः पाटलिपुत्त्रं व्रजति,
सोsपि नात्पाटलिपुत्रं यातीति शक्यते वदितुम; तस्मात्
' प्राणस्तेजसि' इति प्राणसंपृक्तस्याध्यक्षस्यैव एतन तेज:-
सहचरितेषु भूतेष्ववस्थानम ॥
 
कथं तेजः सहचरितेषु भूतेष्वित्युच्यते, यावता एकमेव
श्रूयते- ' प्राणस्तेजसि' इति ? अत आह-
 
तेज:
 
नैकस्मिन्दर्शयतो हि ॥ ६ ॥
 
-
 
न एकस्मिन्नेव तेजसि शरीरान्तरप्रेप्सावेलायां जीवोsव-
तिष्ठते, कार्यस्य शरीरस्यानेकात्मकत्वदर्शनात् । दर्शयतश्च
एतमर्थं प्रश्नप्रतिवचने ' आप: पुरुषवचसः' इति ; तब्या-
ख्यातम् ' त्र्यात्मकत्वात्तु भूयस्त्वात्' इत्यत्र । श्रुतिस्मृती च
एतमर्थ दर्शयत: श्रुतिः - 'पृथ्वीमय आपोमयो वायु-
मय आकाशमयस्तेजोमय : ' इत्याद्या ; स्मृतिरपि - अण्व्यो
मात्राविनाशिन्यो दशार्धानां तु याः स्मृताः । ताभि:
सार्धमिदं सर्वं संभवत्यनुपूर्वशः' इत्याद्या । ननु च उपसं-
हृतेषु वागादिषु करणेषु शरीरान्तरप्रेप्सावेलायाम् ' कार्यं तदा