2026-05-06 05:21:45 by ambuda-bot
This page has not been fully proofread.
सू. ५.]
चतुर्थोऽध्यायः ।
८०३
6 त-
तत्प्रधाना प्राणवृत्तिर्भवतीत्यर्थः ; कुतः ? तदुपगमादिभ्यः -
" एवमेवममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति यत्र-
तदूर्ध्वोच्छ्रासी भवति' इति हि श्रुत्यन्तरम् अध्यक्षोपगा-
मिनः सर्वान्प्राणान् अविशेषेण दर्शयति ; विशेषेण च
मुत्क्रामन्तं प्राणोऽनूत्क्रामति' इति पञ्चवृत्तेः प्राणस्य अध्य-
क्षानुगामितां दर्शयति, तदनुवृत्तितां च इतरेषाम् ' प्राणम-
नूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति' इति 'सविज्ञानो
भवति' इति च अध्यक्षस्य अन्तर्विज्ञानवत्त्वप्रदर्शनेन त-
स्मिन् अपीतकरणग्रामस्य प्राणस्य अवस्थानं गमयति ।
ननु ' प्राणस्तेजसि' इति श्रूयते ; कथं प्राणोऽध्यक्षे इत्यधि-
कावापः क्रियते ? नैष दोष:, अध्यक्ष प्रधानत्वादुत्क्रमणा-
दिव्यवहारस्य, श्रुत्यन्तरगतस्यापि च विशेषस्यापेक्षणीय-
त्वात् ॥
कथं तर्हि 'प्राणस्तेजसि' इति श्रुतिरित्यत आह-
भूतेषु तच्छ्रुतेः ॥ ५ ॥
स प्राणसंपृक्तोऽध्यक्षः तेजः सहचरितेषु भूतेषु देहबीज-
भूतेषु सूक्ष्मेषु अवतिष्ठत इत्यवगन्तव्यम्, ' प्राणस्तेजसि '
इति श्रुतेः । ननु च इयं श्रुतिः प्राणस्य तेजसि स्थिति
S. W. III. 16