Proofing

This page has not been fully proofread.

८००
 
सूत्रभाष्ये
 
[पा. २.
 
आचार्यः पठति? सत्यमेतत्; पठिष्यति तु परस्तात्-
' अविभागो वचनात् ' इति ; तस्मादत्र वृत्त्युपशममात्रं
विवक्षतीति गम्यते । तत्त्वप्रलयविवक्षायां तु सर्वत्रैव अवि-
भागसाम्यात् किं परत्रैव विशिष्यात् - ' अविभाग : ' इति ;
तम्मादत्र वृत्त्युपसंहारविवक्षा । वाग्वृत्तिः पूर्वमुपसंहियते
मनोवृत्ताववस्थितायामित्यर्थः । कस्मात् ? दर्शनात् -- दृश्यते
हि वाग्वृत्तेः पूर्वोपसंहारो मनोवृत्तौ विद्यमानायाम् न
तु वाच एव वृत्तिमत्त्या मनस्युपसंहारः केनचिदपि द्रष्टुं
शक्यते । ननु श्रुतिसामर्थ्यात् वाच एवायं मनम्यप्ययो
युक्त इत्युक्तम् -- नेत्याह, अतत्प्रकृतित्वात्; यस्य हि यत
उत्पत्तिः, तस्य तत्र प्रलयो न्याय्यः, मृदीव शरावस्य; न
च मनसो वागुत्पद्यत इति किंचन प्रमाणमस्ति । वृत्त्युद्भवा-
भिभवौ तु अप्रकृतिसमाश्रयावपि दृश्येते; पार्थिवेभ्यो हि
इन्धनेभ्यः तैजसस्याग्नेर्वृत्तिरुद्भवति, अप्सु च उपशाम्यति ।
कथं तर्हि अस्मिन्पक्षे शब्द:- 'वाङ्मनसि संपद्यते ' इति ?
अत आह—- शब्दाच्चेति; शब्दोऽप्यस्मिन्पक्षेऽवकल्पते,
वृत्तिवृत्तिमतोरभेदोपचारादित्यर्थः ॥
 
अत एव च सर्वाण्यनु ॥ २ ॥
 
'तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि संपद्यमानै: '