2026-05-06 05:21:42 by ambuda-bot
This page has not been fully proofread.
द्वितीयः पादः ॥
अथ अपरासु विद्यासु फलप्राप्तये देवयानं
पन्थानमवतारयिष्यन् प्रथमं तावत् यथा-
शास्त्रमुत्क्रान्तिक्रममन्वाचष्टे ; समाना हि
विद्वदविदुषोरुत्क्रान्तिरिति वक्ष्यति -
वाङ्मनसि दर्शनाच्छन्दाच्च ॥ १ ॥
अस्ति प्रायणविषया श्रुति:-
"
अस्य सोम्य पुरुषस्य
प्रयतो वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेज:
१. वागधि-
परस्यां देवतायाम्' इति । किमिह वाच
करणम् । एव वृत्तिमन्त्या मनसि संपत्तिरुच्यते, उत
वाग्वृत्तेरिति विशय: । तत्र वागेव तावत् मनसि संपद्यत
इति प्राप्तम् ; तथा हि श्रुतिरनुगृहीता भवति ; इतरथा
लक्षणा स्यात् ; श्रुतिलक्षणाविशये च श्रुतियय्या,
लक्षणा ; तस्मात् वाच एव अयं मनसि प्रलय इति ॥
-
न
एवं प्राप्ते, ब्रूमः - वाग्वृत्तिर्मनसि संपद्यत इति । कथं
वाग्वृत्तिरिति व्याख्यायते, यावता 'वाङ्मनसि' इत्येव