Proofing

This page has not been fully proofread.

७९६
 
सूत्रभाष्ये
 
[ पा. १.
 
सह एककार्यं भवतीति स्थितम् ॥
 
भोगेन त्वितरे क्षपयित्वा संपद्यते ॥ १९ ॥
 
,
 

 
अनारब्धकार्ययोः पुण्यपापयोर्विद्यासामर्थ्यात्क्षय उक्तः ।
इतरे तु आधकार्ये पुण्यपापे उपभोगेन क्षपयित्वा ब्रह्म
१४. इतरक्षपणा - संपद्यते, " तस्य तावदेव चिरं यावन्न
धिकरणम् । विमोक्ष्येऽथ संपत्स्ये' इति ' ब्रह्मैव स-
ब्रह्माप्येति' इति च एवमादिश्रुतिभ्यः । ननु सत्यपि म-
दर्शने यथा प्राग्देहपाताद्भेददर्शनं द्विचन्द्रदर्शनन्यायेना-
नुवृत्तम एवं पश्चादप्यनुवर्तेत न, निमित्ताभवान् । उपभो
गशेषक्षपणं हि तत्रानुवृत्तिनिमित्तम्, न च तादृशमत्र किं-
चिदस्ति । ननु अपरः कर्माशयोऽभिनवमुपभोगमारप्स्यते-
न तस्य दग्धबीजत्वात् मिथ्याज्ञानावष्टम्भं हि कर्मान्तरं
देहपात उपभोगान्तरमारभेत; तच्च मिथ्याज्ञानं सम्यग्ज्ञा-
नेन दग्धम- इत्यतः साध्वेतत् आरब्धकार्यक्षये विदुषः कैव-
ल्यमवश्यं भवतीति ॥
 
'
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रागोविन्द-
भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
शारीरकमीमांसासूत्रभाष्ये
चतुर्थाध्यायस्य प्रथमः पादः ॥
 
-0-