2026-05-06 05:21:39 by ambuda-bot
This page has not been fully proofread.
सू. १८. ]
चतुर्थोऽध्यायः ।
७९५
---
कस्मात् ? ' तमेतमात्मानं यज्ञेन विविदिषन्ति' इत्यविशेषेण
अग्निहोत्रादेर्विद्याहेतुत्वेन श्रुतत्वात् । ननु विद्यासंयुक्तस्य
अग्निहोत्रादे विद्याविहीनाद्विशिष्टत्वावगमात् विद्याविहीनमग्नि-
होत्रादि आत्मविद्याहेतुत्वेनानपेक्षमेवेति युक्तम्- नैतदेवम् ;
विद्यासहायस्याग्निहोत्रादेर्विद्यानिमित्तेन सामर्थ्यातिशयेन यो-
गात् आत्मज्ञानं प्रति कश्चित्कारणत्वातिशयो भविष्यति, न
तथा विद्याविहीनस्य — इति युक्तं कल्पयितुम् ; न तु ' यज्ञेन
विविदिषन्ति' इत्यत्राविशेषेणात्मज्ञानाङ्गत्वेन श्रुतस्यानिहो-
त्रादेरनङ्गत्वं शक्यमभ्युपगन्तुम् ; तथा हि श्रुति:- -" यदेव
विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति'
इति विद्यासंयुक्तस्य कर्मणोऽग्निहोत्रादेः वीर्यवत्तरत्वाभिधा-
नेन स्वकार्य प्रति कंचिदतिशयं ब्रुवाणा विद्याविहीनस्य
तस्यैव तत्प्रयोजनं प्रति वीर्यवत्त्वं दर्शयति ; कर्मणश्च
वीर्यवत्त्वं तत्, यत्स्वप्रयोजनसाधनसहत्वम् । तस्माद्विद्यासं-
युक्तं नित्यमग्निहोत्रादि विद्याविहीनं च उभयमपि मुमुक्षुणा
मोक्षप्रयोजनोद्देशेन इह जन्मनि जन्मान्तरे च प्राग्ज्ञानो-
त्पत्तेः कृतं यत्, तद्यथासामर्थ्यं ब्रह्माधिगमप्रतिबन्धकार-
गोपात्तदुरितक्षयहेतुत्वद्वारेण ब्रह्माधिगमकारणत्वं प्रतिपद्य-
मानं श्रवणमननश्रद्धा तात्पर्याद्यन्तरङ्गकारणापेक्षं ब्रह्मविद्यया
।