Proofing

This page has not been fully proofread.

७९४
 
सूत्रभाष्ये
 
[ पा. १.
 
विद्वान्शंसति' ' य एवं विद्वान्गायति' ' तस्मादेवंविदमेव
ब्रह्माणं कुर्वीत' 'तेनोभौ कुरुतो यश्चैतदेवं वेद यश्व न
वेद' इत्यादिवचनेभ्यो विद्यासंयुक्तमस्ति, केवलमप्यस्ति ।
तत्रेदं विचार्यते—किं विद्यासंयुक्तमेव अग्निहोत्रादिकं कर्म
मुमुक्षोर्विद्याहेतुत्वेन तया सह एककार्यत्वं प्रतिपद्यते, न
केवलम् ; उत विद्यासंयुक्तं केवलं च अविशेषेणेति । कुतः
संशयः ? ' तमेतमात्मानं यज्ञेन विविदिषन्ति ' इति यज्ञादी-
नामविशेषेण आत्मवेदनाङ्गत्वेन श्रवणात् विद्यासंयुक्तम्य
च अग्निहोत्रादेर्विशिष्टत्वावगमात् । किं तावत्प्राप्तम् ? विद्या-
संयुक्तमेव कर्म अग्निहोत्रादि आत्मविद्याशेपत्वं प्रतिपद्यते,
न विद्याहीनम् विद्योपेतस्य विशिष्टत्वावगमाद्विद्याविही
नात् - ' यदहरेव जुहोति तदह: पुनर्मृत्युमपजयत्येवं विद्वान '
इत्यादिश्रुतिभ्यः, 'बुद्धया युक्तो यया पार्थ कर्मबन्धं प्रहा-
स्यसि ' ' दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय' इत्यादिस्मृ-
तिभ्यश्च इत्येवं प्राप्ते -
 
"
 
,
 
प्रतिपाद्यते — यदेव विद्ययेति हि । सत्यमेतत्-
विद्यासंयुक्तं कर्म अग्निहोत्रादिकं विद्याविहीनात्कर्मणोऽग्नि-
होत्राद्विशिष्टम् विद्वानिव ब्राह्मणो विद्याविहीनाद्राह्मणात् ;
तथापि नात्यन्तमनपेक्षं विद्याविहीनं कर्म अग्निहोत्रादिकम् ;
 
"