Proofing

This page has not been fully proofread.

७९२
 
सूत्रभाष्ये
 
[पा. १.
 
पुण्यस्याप्यश्लेषविनाशयोरघन्यायो ऽतिदिष्टः ; सोऽतिदेशः
सर्वपुण्यविषय इत्याशङ्कय प्रतिवक्ति — अग्निहोत्रादि त्विति ।
१२. अग्निहोत्राद्य तु शब्द आशङ्कामपनुदति यन्नित्यं कर्म
 
"
 
धिकरणम् । वैदिकमग्निहोत्रादि, तत् तत्कार्यायैव भ-
वति ; ज्ञानस्य यत्कार्यं तदेव अस्यापि कार्यमित्यर्थः ; कुतः ?
' तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन
इत्यादिदर्शनात । ननु ज्ञानकर्मणोर्विलक्षणकार्यत्वात्कार्येक-
त्वानुपपत्ति: - नैष दोष:, ज्वरमरणकार्ययोरपि दधिविषयोः
गुडमत्रसंयुक्तयोस्तृप्तिपुष्टिकार्यदर्शनात, तद्वत कर्मणोऽपि ज्ञा-
नसंयुक्तस्य मोक्षकार्योपपत्तेः । ननु अनारभ्यो मोक्षः, कथम-
स्य कर्मकार्यत्वमुच्यते ? नैष दोष:, आरादुपकारकत्वात्कर्मण: ;
ज्ञानस्यैव हि प्रापकं सत् कर्म प्रणाड्या मोक्षकारणमित्युपच-
येते; अत एव च अतिक्रान्तविषयमेतत्कार्यैकत्वाभिधानम् ।
न हि ब्रह्मविद आगाम्यग्निहोत्रादि संभवति, अनियोज्यब्रह्मा-
मत्वप्रतिपत्तेः शास्त्रस्याविषयत्वात् । सगुणासु तु विद्यासु
कर्तृत्वानतिवृत्तेः संभवति आगाम्यपि अग्निहोत्रादि । तस्यापि
निरभिसंधिनः कार्यान्तराभावाद्विद्यासंगत्युपपत्तिः ॥
 
'
 
किंविषयं पुनरिदम अश्लेषविनाशवचनम् किंविषयं वा
अदो विनियोगवचनम् एकेषां शाखिनाम्- ' तस्य पुत्रा