Proofing

This page has not been fully proofread.

सू. १६. ]
 
चतुर्थोऽध्यायः ।
 
७९१
 
निर्मितम् । कुत एतत् ? ' तस्य तावदेव चिरं यावन्न विमो-
क्ष्येऽथ संपत्स्ये' इति शरीरपातावधिकरणात्क्षेमप्राप्तेः ; इत-
रथा हि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावात् ज्ञानप्रा-
प्रत्यनन्तरमेव क्षेममश्नुवीत; तत्र शरीरपातप्रतीक्षां न आ-
चक्षीत । ननु वस्तुबलेनैव अयमकर्त्रात्मावबोधः कर्माणि
क्षपयन् कथं कानिचित्क्षपयेत् कानिचिचोपेक्षेत न हि
समानेऽग्निबीजसंपर्के, केषांचिद्वीजशक्तिः क्षीयते, केषांचिन्न
क्षीयते - इति शक्यमङ्गीकर्तुमिति ; उच्यते — न तावदना-
श्रित्य आरब्धकार्य कर्माशयं ज्ञानोत्पत्तिरुपपद्यते ; आश्रिते च
तस्मिन्कुलालचक्रवत्प्रवृत्तवेगस्य अन्तराले प्रतिबन्धासंभवात्
भवति वेगक्षयप्रतिपालनम् । अकर्त्रात्मबोधोऽपि हि मिथ्या-
ज्ञानबाधनेन कर्माण्युच्छिनत्ति; बाधितमपि तु मिथ्याज्ञानं
द्विचन्द्रज्ञानवत्संस्कारवशात्कंचित्कालमनुवर्तत एव । अपि च
नैवात्र विवदितव्यम् - ब्रह्मविदा कंचित्कालं शरीरं ध्रियते न
वा ध्रियत इति ; कथं हि एकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं
देहधारणं च अपरेण प्रतिक्षेप्तुं शक्येत ? श्रुतिस्मृतिषु च
स्थितप्रज्ञलक्षणनिर्देशेन एतदेव निरुच्यते । तस्मादनारब्धका-
योरेव सुकृतदुष्कृतयोर्विद्यासामर्थ्यात्क्षय इति निर्णयः ॥
 
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥