Proofing

This page has not been fully proofread.

७८८
 
सूत्रभाष्ये
 
[पा. १.
 
वयं कर्मण: फलदायिनीं शक्तिमवजानीमहे; विद्यत एव
सा; सा तु विद्यादिना कारणान्तरेण प्रतिबध्यत इति वदामः ;
शक्तिसद्भावमात्रे च शास्त्रं व्याप्रियते, न प्रतिबन्धाप्रतिबन्ध-
 
6
 
योरपि ।
न हि कर्म क्षीयते' इत्येतदपि स्मरणमौत्सर्गि-
कम - न हि भोगादृते कर्म क्षीयते तदर्थत्वादिति ; इष्यत एव
' सर्व पाप्मानं तरति,
 
,
 
"
 
तु प्रायश्चित्तादिना तस्य क्षय:--
तरति ब्रह्महत्याम, योऽश्वमेधेन यजते य उ चैनमेवं वेद
इत्यादि श्रुतिस्मृतिभ्यः । यत्तूक्तम् - नैमित्तिकानि प्रायश्चित्ता-
नि भविष्यन्तीति तदसत्, दोषसंयोगेन चोद्यमानानामेषां
दोषनिर्घातफलसंभवे फलान्तरकल्पनानुपपत्तेः । यत्पुनरेत-
दुक्तम् - न प्रायश्चित्तवत दोषक्षयोद्देशेन विद्याविधानमस्ती-
ति, अत्र ब्रूमः -- सगुणासु तावद्विद्यासु विद्यत एव विधा-
नम्, तासु च वाक्यशेषे ऐश्वर्यप्राप्तिः पापनिवृत्तिश्च विद्यावत
उच्यते, तयोश्चाविवक्षाकारणं नास्ति इत्यतः पाप्मप्रहाणपूर्व-
 
-
 
7
 
कैश्वर्यप्राप्तिः तासां फलमिति निश्चीयते ; निर्गुणायां तु विद्यायां
यद्यपि विधानं नास्ति, तथापि अकर्त्रात्मत्ववोधात्कर्मप्रदाहसि-
द्धि: । अश्लेष इति च आगामिषु कर्मसु कर्तृत्वमेव न प्रतिपद्यते
ब्रह्मविदिति दर्शयति । अतिक्रान्तेषु तु यद्यपि मिथ्याज्ञाना-
कर्तृत्वं प्रतिपेद इव तथापि विद्यासामर्थ्यान्मिथ्याज्ञाननि-