Proofing

This page has not been fully proofread.

सू. १३.]
 
चतुर्थोऽध्यायः ।
 
७८७
 
नन्वेवं सति प्रायश्चित्तोपदेशोऽनर्थकः प्राप्नोति नैष दोष:,
प्रायश्चित्तानां नैमित्तिकत्वोपपत्तेः गृहदाहेष्टयादिवत् । अपि च
प्रायश्चित्तानां दोषसंयोगेन विधानाद्भवेदपि दोषक्षपणार्थता;
न त्वेवं ब्रह्मविद्यायां विधानमस्ति । नन्वनभ्युपगम्यमाने ब्रह्म-
विद: कर्मक्षये तत्फलस्यावश्यभोक्तव्यत्वादनिर्मोक्षः स्यात् -
नेत्युच्यते ; देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भवि-
यति । तस्मान्न ब्रह्माधिगमे दुरितनिवृत्तिरित्येवं प्राप्ते-
 
ब्रूमः - तदधिगमे ब्रह्माधिगमे सति उत्तरपूर्वयोरघयो-
रश्लेषविनाशौ भवतः - उत्तरस्य अश्लेषः, पूर्वस्य विनाशः ।
कस्मात् ? तद्व्यपदेशात् ; तथा हि ब्रह्मविद्याप्रक्रियायां संभा-
व्यमानसंबन्धस्य आगामिनो दुरितखानभिसंबन्धं विदुषो
व्यपदिशति - ' यथा पुष्करपलाश आपो न श्लिष्यन्त एव-
मेवंविदि पापं कर्म न श्लिष्यते' इति ; तथा विनाशमपि
पूर्वोपचितस्य दुरितस्य व्यपदिशति' तद्यथेषी का तूलमन्नौ
प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते ' इति ;
अयमपरः कर्मक्षयव्यपदेशो भवति -
'भिद्यते हृदयग्र-
 
-
 
न्धिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मि -
दृष्टे परावरे' इति । यदुक्तम्- अनुपभुक्तफलस्य कर्मण:
क्षयकल्पनायां शाखं कदर्थितं स्यादिति, नैष दोषः ; न हि
 
S. W. 111. 15