Proofing

This page has not been fully proofread.

सू. २७.]
 
तृतीयोऽध्यायः ।
 
५५७
 
पवादयोः व्यवस्थितविषयत्वम्; तस्माद्विशुद्धं कर्म वैदि
कम्, शिष्टैरनुष्ठीयमानत्वात् अनिन्द्यमानत्वाच्च तेन न तस्य
प्रतिरूपं फलम् जातिस्थावरत्वम् । न च वादिजन्मवदपि
व्रीह्यादिजन्म भवितुमर्हति ; तद्धि कपूयचरणानधिकृत्य
उच्यते ; नैवमिह वैशेषिकः कश्चिदधिकारोऽस्ति । अतश्चन्द्र-
स्थलस्खलितानामनुशयिनां व्रीह्यादिसंश्लेषमात्रं तद्भाव इत्यु-
पचर्यते ॥
 
रेतः सिग्योगोऽथ ॥ २६ ॥
 
इतश्च व्रीह्यादिसंश्लेषमात्रं तद्भाव:, यत्कारणं व्रीह्यादिभा-
वस्यानन्तरमनुशयिनां रेतः सिग्भाव आम्नायते - ' यो यो ह्य-
नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति' इति ; न चात्र
मुख्यो रेतः सिग्भावः संभवति ; चिरजातो हि प्राप्तयौवनो
रेतः सिग्भवति ; कथमिव अनुपचरितं तद्भावम् अद्यमाना-
न्नानुगतोऽनुशयी प्रतिपद्यते ? तत्र तावदवश्यं रेतः सिग्योग
एव रेतः सिग्भावोऽभ्युपगन्तव्य: ; तद्वत् ब्रीह्यादिभावोऽपि
व्रीह्मादियोग एवेत्यविरोधः ॥
 
योनेः शरीरम् ॥ २७ ॥
 
अथ रेतः सिग्भावस्यानन्तरं योनौ निषिक्ते रेतसि, योने-
रधि शरीरम् अनुशयिनाम् अनुशयफलोपभोगाय जायत