2026-05-06 05:22:05 by ambuda-bot
This page has not been fully proofread.
५५६
सूत्रभाष्ये ।
पा. १.
जनेर्मुख्यार्थत्वं प्रतिब्रूयात्, उपभोगस्थानत्वं च स्थावरभा-
वस्य ; न च वयमुपभोगस्थानत्वं स्थावर भावस्यावजानीमहे;
भवत्वन्येषां जन्तूनामपुण्यसामर्थ्येन स्थावरभावमुपगतानाम्
एतत् उपभोगस्थानम् ; चन्द्रमसस्तु अवरोहन्तो ऽनुशयिनो
न स्थावरभावमुपभुञ्जत इत्याचक्ष्महे ॥
अशुद्धमिति चेन्न शब्दात् ॥ २५ ॥
यत्पुनरुक्तम् - पशुहिंसादियोगादशुद्ध माध्वरिकं कर्म, त-
स्यानिष्टमपि फलमवकल्पत इत्यतो मुख्यमेवानुशयिनां त्री-
ह्यादिजन्म अस्तु; तत्र गौणी कल्पना अनर्थकेति - तत्परि-
ह्रियते--न, शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य ; अयं धर्मः
अयमधर्म इति शास्त्रमेव विज्ञाने कारणम्, अतीन्द्रियत्वा-
त्तयो:; अनियतदेशकालनिमित्तत्वाच्च - यस्मिन्देशे काले नि-
मित्ते च यो धर्मोऽनुष्ठीयते स एव देशकालनिमित्तान्त-
रेष्वधर्मो भवति ; तेन न शास्त्रादृते धर्माधर्मविषयं विज्ञानं
कस्यचिदस्ति । शास्त्राश्च हिंसानुग्रहाद्यात्मको ज्योतिष्टोमो
धर्म इत्यवधारितः, स कथमशुद्ध इति शक्यते वक्तुम् ।
ननु 'न हिंस्यात्सर्वा भूतानि ' इति शास्त्रमेव भूतविषयां
हिंसाम् अधर्म इत्यवगमयति ; बाढम् — उत्सर्गस्तु सः ;
अपवादोऽयं च 'अग्नीषोमीयं पशुमालभेत ' इति ; उत्सर्गा-