Proofing

This page has not been fully proofread.

सू. २४.]
 
तृतीयोऽध्यायः ।
 
५५५.
 
श्वादिजन्मवत्- यथा ' श्वयोनिं वा सूकरयोनिं वा चाण्डा-
लयोनिं वा' इति मुख्यमेवानुशयिनां श्वादिजन्म तत्सुखदु:-
खान्वितं भवति, एवं व्रीह्यादिजन्मापीति । एवं प्राप्ते -
 
-
 
ब्रूमः - अन्यैर्जीवैरधिष्ठितेषु श्रीह्यादिषु संसर्गमात्रम-
नुशयिन: प्रतिपद्यन्ते, न तत्सुखदुःखभाजो भवन्ति, पूर्व-
वत् - यथा वायुधूमादिभावोऽनुशयिनां तत्संश्लेषमात्रम्,
एवं व्रीह्यादिभावोऽपि जातिस्थावरैः संश्लेषमात्रम् । कुत
एतत् ? तद्वदेवेहाप्यभिलापात् ; कोऽभिलापस्य तद्वद्भावः ?
कर्मव्यापारमन्तरेण संकीर्तनम् - यथा आकाशादिषु प्रवर्ष-
णान्तेषु न किंचित्कर्मव्यापारं परामृशति, एवं ब्रीह्यादि -
जन्मन्यपि । तस्मान्नास्त्यत्र सुखदुःखभाक्त्वमनुशयिनाम् ।
यत्र तु सुखदुःखभाक्त्वमभिप्रैति, परामृशति तत्र कर्म-
'रमणीयचरणाः कपूयचरणा:' इति ।
अपि च मुख्येऽनुशयिनां व्रीह्यादिजन्मनि, व्रीह्यादिषु लूय-
मानेषु कण्ड्यमानेषु पच्यमानेषु भक्ष्यमाणेषु च तदभिमा-
निनोऽनुशयिनः प्रवसेयुः ; यो हि जीवो यच्छरीरमभिम-
न्यते स तस्मिन्पीड्यमाने प्रवसति - इति प्रसिद्धम् ; तत्र
व्रीह्यादिभावाद्रेतः सिग्भावोऽनुशयिनां नाभिलप्येत; अतः
संसर्गमात्रमनुशयिनामन्याधिष्ठितेषु व्रीह्यादिषु भवति । एतेन
 
व्यापारम् -
 
...