Proofing

This page has not been fully proofread.

५५४
 
सूत्रभाष्ये ।
 
[ पा. १०
 
भावापत्तेरनन्तरं विशिनष्टि - ' अतो वै खलु दुर्निष्प्रपतरम्'
इति ; तकार एक छान्दस्यां प्रक्रियायां लुप्तो मन्तव्य: ;
दुर्निष्प्रपततरं दुर्निष्क्रमतरम् - दुःखतरमस्माद्रीह्यादिभावा-
न्निःसरणं भवतीत्यर्थः ; तत् अत्र दुःखं निष्प्रपतनं प्रदर्श-
यन् पूर्वेषु सुखं निष्प्रपतनं दर्शयति सुखदुःखताविशेषश्चायं
निष्प्रपतनस्य कालाल्पत्वदीर्घत्वनिमित्तः तस्मिन्नवधौ शरी-
रानिष्पत्तेरुपभोगासंभवात् । तस्माद्ब्रीह्यादिभावापत्तेः प्राक्
अल्पेनैव कालेनावरोहः स्यादिति ॥
 
अन्याधिष्ठितेषु पूर्ववदभिलापात् ॥ २४ ॥
तस्मिन्नेवावरोहे प्रवर्षणानन्तरं पठ्यते— 'त इह त्री-
हियवा ओषधिवनस्पतयस्तिलभाषा इति जायन्ते ' इति । तत्र
६. अन्याधिष्ठिता- संशयः किमस्मिन्नवधौ स्थावरजात्या-
 
धिकरणम् । पन्नाः स्थावरसुखदुःखभाजोऽनुशयिनो भ-
वन्ति, आहोस्वित्क्षेत्रज्ञान्तराधिष्ठितेषु स्थावरशरीरेषु संश्ले-
मात्रं गच्छन्तीति । किं तावत्प्राप्तम् ? स्थावरजात्यापन्नास्त-
त्सुखदुःखभाजोऽनुशयिनो भवन्तीति; कुत एतत् ? जने-
र्मुख्यार्थत्वोपपत्तेः, स्थावरभावस्य च श्रुतिस्मृत्योरुपभोगस्था-
नत्वप्रसिद्धेः, पशुहिंसादियोगाच्च इष्टादेः कर्मजातस्यानिष्ट-
फलत्वोपपत्तेः ; तस्मान्मुख्यमेवेदमनुशयिनां व्रीह्यादिजन्म,