2026-05-06 05:22:02 by ambuda-bot
This page has not been fully proofread.
सू. २३. ]
तृतीयोऽध्यायः ।
५५३
दिसाम्यं प्रतिपद्यन्त इति ; चन्द्रमण्डले यत् अम्मयं शरीरमु-
पभोगार्थमारब्धम्, तत् उपभोगक्षये सति प्रविलीयमानं सू-
क्ष्ममाकाशसमं भवति ; ततो वायोर्वशमेति ; ततो धूमादिभि:
संपृच्यत इति । तदेतदुच्यते--' यथेतमाकाशमाकाशाद्वायुम् '
इत्येवमादिना । कुत एतत् ? उपपत्तेः ; एवं हि एतदुपपद्यते ; न
हि अन्यस्यान्यभावो मुख्य उपपद्यते ; आकाशस्वरूपप्रतिप-
त्तौ च वाय्वादिक्रमेणावरोहो नोपपद्यते ; विभुत्वाच्च आका-
शेन नित्यसंबद्धत्वात् न तत्सादृश्यापत्तेरन्यः तत्संबन्धो
घटते । श्रुत्यसंभवे च लक्षणाश्रयणं न्याय्यमेव ।
आकाशादितुल्यतापत्तिरेव अत्र आकाशादिभाव इत्युपच-
यते ॥
नातिचिरेण विशेषात् ॥ २३ ॥
अत
तत्र अकाशादिप्रतिपत्तौ प्राग्त्रीह्यादिभावापत्तेः भवति वि-
शय:- किं दीर्घे दीर्घ कालं पूर्वपूर्वसादृश्येनावस्थायोत्तरो-
नातिचिरा- त्तरसादृश्यं गच्छन्ति, उताल्पमल्पमिति 1
५.
धिकरणम् । तत्रानियमः, नियमकारिणः शास्त्रस्याभा-
वादित्येवं प्राप्ते, इदमाह - नातिचिरेणेति । अल्पमल्पं
कालमाकाशादिभावेनावस्थाय वर्षधाराभिः सह इमां भुव-
मापतन्ति; कुत एतत् ? विशेषदर्शनात्; तथा हि ब्रीह्यादि -