2026-05-06 05:22:01 by ambuda-bot
This page has not been fully proofread.
सू. २१.]
तृतीयोऽध्यायः ।
५५१
ध्यति ; अन्येषां तु विनैवाहुतिसंख्यया भूतान्तरोपसृष्टाभि-
रद्भिर्देह आरप्स्यते ॥
स्मर्यतेऽपि च लोके ॥ १९ ॥
अपि च स्मर्यते लोके, द्रोणधृष्टद्युम्नप्रभृतीनां सीताद्रौपदी-
प्रभृतीनां च अयोनिजत्वम् । तत्र द्रोणादीनां योषिद्विषया
एका आहुतिर्नास्ति धृष्टद्युम्नादीनां तु योषित्पुरुषविषये द्वे
अप्याहुती न स्तः । यथा च तत्र आहुतिसंख्यानियमानादरो
भवति, एवमन्यत्रापि भविष्यति । बलाकापि अन्तरेणैव
रेतः सेकं गर्भ धत्त इति लोकरूढिः ॥
दर्शनाच्च ॥ २० ॥
अपि च चतुर्विधे भूतग्रामे जरायुजाण्डजस्वेदजोद्भिज्जल-
क्षणे स्वेदजोद्भिज्जयो: अन्तरेणैव ग्राम्यधर्मम् उत्पत्तिदर्शना-
त् आहुतिसंख्यानादरो भवति । एवमन्यत्रापि भविष्यति ॥
ननु ' तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति
आण्डजं जीवजमुद्भिज्जम्' इत्यत्र त्रिविध एव भूतग्रामः
श्रूयते; कथं चतुर्विधत्वं भूतग्रामस्य प्रतिज्ञातमिति,
अत्रोच्यते-
तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥