Proofing

This page has not been fully proofread.

५५०
 
सूत्रभाष्ये
 
[ पा. १.
 
अवरोहस्येष्टादिकारिष्वप्यविशिष्टत्वे सति तृतीयस्थानोक्त्या-
नर्थक्यप्रसङ्गात् । तु-शब्दस्तु शाखान्तरीयवाक्यप्रभवामशे-
षगमनाशङ्कामुच्छिनत्ति; एवं सति अधिकृतापेक्षः शाखान्त-
ये वाक्ये सर्वशब्दोऽवतिष्ठते - ये वै केचिदधिकृता अस्मा-
लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति ॥
यत्पुनरुक्तम्- देहला भोपपत्तये सर्वे चन्द्रमसं गन्तुम-
ईन्ति, 'पञ्चम्यामाहुतौ...' इत्याहुतिसंख्या नियमादिति,
तत्प्रत्युच्यते-
 
न तृतीये तथोपलब्धेः ॥ १८ ॥
 
न तृतीये स्थाने देहलाभाय पञ्चसंख्यानियम आहुती-
नामादर्तव्यः ; कुतः? तथोपलब्धेः ; तथा हि अन्तरेणैवाहुतिसं-
ख्यानियमं वर्णितेन प्रकारेण तृतीयस्थानप्राप्तिरुपलभ्यते-
 
6
 
6
 
'जायस्व प्रियस्वेत्येतत्तृतीयं स्थानम्' इति । अपि च पञ्च-
म्यामाहुतावापः पुरुषवचसो भवन्ति' इति मनुष्यशरीरहे-
तुत्वेन आहुतिसंख्या कीर्त्यते, न कीटपतङ्गादिशरीरहेतुत्वेन,
पुरुषशब्दस्य मनुष्यजातिवचनत्वात् । अपि च पञ्चम्यामा-
हुतावपां पुरुषवचस्त्वमुपदिश्यते, न अपञ्चम्यामाहुतौ पुरु-
षवचस्त्वं प्रतिषिध्यते, वाक्यस्य व्यर्थतादोषात् । तत्र येषा-
मारोहावरोह संभवतः, तेषां पञ्चम्यामाहुतौ देह उद्भवि-