2026-05-06 05:22:01 by ambuda-bot
This page has not been fully proofread.
सू. १७.]
तृतीयोऽध्यायः ।
५४९
न संपूर्यते' इति । तत्र एतयोः पथोरिति विद्याकर्मणोरित्येतत् ;
कस्मात् ? प्रकृतत्वात् ; विद्याकर्मणी हि देवयानपितृया-
णयोः पथोः प्रतिपदे प्रकृते- 'तद्य इत्थं विदुः' इति
विद्या, तया प्रतिपत्तव्यो देवयानः पन्थाः प्रकीर्तितः; ' इष्टा-
पूर्ते दत्तम्' इति कर्म, तेन प्रतिपत्तव्यः पितृयाणः पन्थाः
प्रकीर्तितः- तत्प्रक्रियायाम् ' अथैतयोः पथोर्न कतरेणचन '
इति श्रुतम् । एतदुक्तं भवति - ये न विद्यासाधनेन
देवयाने पथ्यधिकृताः, नापि कर्मणा पितृयाणे, तेषामेष
क्षुद्रजन्तुलक्षणोऽसकृदावर्ती तृतीयः पन्था भवतीति ; तस्मा-
दपि न अनिष्टादिकारिभिश्चन्द्रमाः प्राप्यते । स्यादेतत्-तेऽपि
चन्द्रबिम्बमारुह्य ततोऽवरुह्य क्षुद्रजन्तुत्वं प्रतिपत्स्यन्त इति ;
तदपि नास्ति, आरोहानर्थक्यात् । अपि च सर्वेषु प्रयत्सु
चन्द्रलोकं प्राप्नुवत्सु असौ लोकः प्रयद्भिः संपूर्येत - इत्यतः
प्रश्नविरुद्धं प्रतिवचनं प्रसज्येत; तथा हि प्रतिवचनं दात-
व्यम्, यथा असौ लोको न संपूर्यते । अवरोहाभ्युपगमा-
दसंपूरणोपपत्तिरिति चेत्, न, अश्रुतत्वात् सत्यम् अवरो-
हादप्यसंपूरणमुपपद्यते ; श्रुतिस्तु तृतीयस्थानसंकीर्तनेन असं -
पूरणं दर्शयति — ' एतत्तृतीयं स्थानं तेनासौ लोको न
संपूर्यते' इति तेन अनारोहादेव असंपूरणमिति युक्तम् ;