2026-05-06 05:22:00 by ambuda-bot
This page has not been fully proofread.
५४८
सूत्रभाष्ये
कपूयकर्मविपाकं स्मरन्ति नाचिकेतोपाख्यानादिषु ॥
अपि च सप्त ॥ १५ ॥
[पा. १.
अपि च सप्त नरका रौरवप्रमुखा दुष्कृतफलोपभोगभू-
मित्वेन स्मर्यन्ते पौराणिकैः; ताननिष्टादिकारिणः प्राप्नुव-
न्ति ; कुतस्ते चन्द्रं प्राप्नुयुः इत्यभिप्रायः ॥
ननु विरुद्धमिदम् - यमायत्ता यातनाः पापकर्माणो-
Sनुभवन्तीति यावता तेषु रौरवादिषु अन्ये चित्रगुप्तादयो
नानाधिष्ठातारः स्मर्यन्त इति ; नेत्याह--
"
तत्रापि च तव्यापारादविरोधः ॥ १६ ॥
तेष्वपि सप्तसु नरकेषु तस्यैव यमस्याधिष्ठातृत्वव्यापारा-
भ्युपगमादविरोधः ; यमप्रयुक्ता एव हि ते चित्रगुप्तादयो-
धिष्ठातारः स्मर्यन्ते ॥
विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ १७ ॥
पञ्चाग्निविद्यायाम् ' वेत्थ यथासौ लोको न संपूर्यते '
इत्यस्य प्रश्नस्य प्रतिवचनावसरे श्रूयते- 'अथैतयोः
पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि
भवन्ति । जायस्व म्रियस्त्वेत्येतत्तृतीयं स्थानं तेनासौ लोको