2026-05-06 05:21:59 by ambuda-bot
This page has not been fully proofread.
सू. १४.]
तृतीयोऽध्यायः ।
संयमने त्वनुभूयेतरेषामारोहावरोहौ
तद्गतिदर्शनात् ॥ १३ ॥
-
५४७
तु-शब्द: पक्षं व्यावर्तयति । नैतदस्ति सर्वे चन्द्रमसंग-
च्छन्तीति; कस्मात् ? भोगायैव हि चन्द्रारोहणम्, न नि-
प्रयोजनम् ; नापि प्रत्यवरोहायैव, - यथा कश्चिद्वृक्षमारोहति
पुष्पफलोपादानाय न निष्प्रयोजनम्, नापि पतनायैव ;
भोगच अनिष्टादिकारिणां चन्द्रमसि नास्तीत्युक्तम् ; तस्मादि-
ष्टादिकारिण एव चन्द्रमसमारोहन्ति, नेतरे । ते तु संयमनं
यमालयमवगाह्य स्वदुष्कृतानुरूपा यामीर्यातना अनुभूय पु-
नरेव इमं लोकं प्रत्यवरोहन्ति; एवंभूतौ तेषामारोहावरोहौ
भवत: ; कुत: ? तद्गतिदर्शनात् ; तथा हि यमवचनसरूपा श्रु-
ति: प्रयताम् अनिष्टादिकारिणां यमवश्यतां दर्शयति- 'न
सांपराय: प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् ।
अयं लोको नास्ति पर इति मानी पुनः पुनर्वश-
मापद्यते ' इति । 'वैवस्वतं संगमनं जनानाम्' इत्येवंजा-
तीयकं च बह्वेव यमवश्यताप्राप्तिलिङ्गं भवति ॥
स्मरन्ति च ॥ १४ ॥
अपि च मनुव्यासप्रभृतयः शिष्टाः संयमने पुरे यमायतं