Proofing

This page has not been fully proofread.

५४६
 
सूत्रभाष्ये
 
[ पा. १.
 
इष्टादिलक्षणं पुण्यं कर्म करोति, तं लौकिका आचक्षते - धर्म
चरत्येष महात्मेति । आचारोऽपि च धर्मविशेष एव । भेद-
व्यपदेशस्तु कर्मचरणयोर्ब्राह्मणपरिव्राजकन्यायेनाप्युपपद्यते ।
तस्मात् रमणीयचरणाः प्रशस्तकर्माणः, कपूयचरणा निन्दि-
तकर्माणः इति निर्णयः ॥
 
अनिष्टादिकारिणामपि च
 
श्रुतम् ॥ १२ ॥
 
इष्टादिकारिणश्चन्द्रमसं गच्छन्तीत्युक्तम् । ये वितरेऽनि-
ष्टादिकारिणः, तेऽपि किं चन्द्रमसं गच्छन्ति, उत न गच्छ-
३. अनिष्टादिका - न्तीति चिन्त्यते । तत्र तावदाह — इष्टादि -
 
र्यधिकरणम् । कारिण एव चन्द्रमसं गच्छन्तीत्येतत् न ;
कस्मात् ? यतोऽनिष्टादिकारिणामपि चन्द्रमण्डलं गन्तव्यत्वेन
श्रुतम् । तथा हि अविशेषेण कौषीतकिनः समामनन्ति- ." ये
aa चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति '
इति । देहारम्भोऽपि च पुनर्जायमानानां न अन्तरेण चन्द्र-
प्राप्तिम् अवकल्पते, 'पञ्चम्यामाहुतौ' इत्याहुतिसंख्यानिय -
मात् । तस्मात्सर्व एव चन्द्रमसमासीदेयुः । इष्टादिकारिणा-
मितरेषां च समानगतित्वं न युक्तमिति चेत्, न, इतरेषां
चन्द्रमण्डले भोगाभावात् ॥