2026-05-06 05:21:59 by ambuda-bot
This page has not been fully proofread.
सु. ११.]
•
तृतीयोऽध्यायः ।
५४५
स्यादेतत् — कस्मात्पुनश्चरणशब्देन श्रौतं शीलं विहाय
लाक्षणिक: अनुशयः प्रत्याय्यते ? ननु शीलस्यैव श्रौतस्य
विहितप्रतिषिद्धस्य साध्वसाधुरूपस्य शुभाशुभयोन्यापत्तिः
फलं भविष्यति ; अवश्यं च शीलस्यापि किंचित्फलमभ्युप-
गन्तव्यम्, अन्यथा ह्यानर्थक्यमेव शीलस्य प्रसज्येत-
इति चेत्, नैष दोष: कुत: ? तदपेक्षत्वात्; इष्टादि हि
कर्मजातं चरणापेक्षम्; न हि सदाचारहीनः कश्चिदधि-
कृतः स्यात् —' आचारहीनं न पुनन्ति वेदा:' इत्यादि-
स्मृतिभ्यः । पुरुषार्थत्वेऽप्याचारस्य न आनर्थक्यम्; इष्टादौ हि
कर्मजाते फलमारभमाणे तदपेक्ष एवाचारस्तत्रैव कंचिदति-
शयमारप्स्यते । कर्म च सर्वार्थकारि - इति श्रुतिस्मृति-
सिद्धि: । तस्मात्कर्मैव शीलोपलक्षितमनुशयभूतं योन्यापत्तौ
कारणमिति कार्ष्णाजिनेर्मतम् ; न हि कर्मणि संभवति
शीलात् योन्यापत्तिर्युक्ता न हि पद्धयां पलायितुं पारय-
;
माणो जानुभ्यां रहितुमर्हति — इति ॥
सुकृतदुष्कृते एवेति तु बादरिः ॥ ११ ॥
बादरिस्त्वाचार्यः सुकृतदुष्कृते एव चरणशब्देन प्रत्या-
येते इति मन्यते ; चरणम् अनुष्ठानं कर्मेत्यनर्थान्तरम् । तथा
हि अविशेषेण कर्ममात्रे चरतिः प्रयुज्यमानो दृश्यते—-यो हि