2026-05-06 05:21:57 by ambuda-bot
This page has not been fully proofread.
५४४
सूत्रभाष्ये
[ पा. १.
माकाशयोः पितृयाणेऽध्वन्युपात्तयोरवरोहे संकीर्तनात् यथेतं-
शब्दाच्च यथागतमिति प्रतीयते ; राज्याद्य संकीर्तनादभ्राद्युपसं-
ख्यानाच्च विपर्ययोऽपि प्रतीयते ॥
चरणादिति चेन्नोपलक्षणार्थेति कार्णा-
जिनिः ॥ ९ ॥
G
अथापि स्यात् -- या श्रुतिरनुशय सद्भावप्रतिपादनायो-
दाहृता - ' तद्य इह रमणीयचरणा:' इति, सा खलु चर-
णात् योन्यापत्तिं दर्शयति, नानुशयात्; अन्यञ्चरणम्, अ-
न्योऽनुशयः - चरणं चारित्रम् आचारः शीलमित्यनर्थान्तरम्,
अनुशयस्तु भुक्तफलात्कर्मणोऽतिरिक्तं कर्म अभिप्रेतम्
श्रुतिश्च कर्मचरणे भेदेन व्यपदिशति - यथाकारी यथा-
चारी तथा भवति इति ' ' यान्यनवद्यानि कर्माणि तानि
सेवितव्यानि नो इतराणि यान्यस्माकर सुचरितानि तानि
त्वयोपास्यानि ' इति च; तस्मात् चरणाद्योन्यापत्तिश्रुतेः ना-
नुशयसिद्धिः इति चेत्, नैष दोष:- यतोऽनुशयोपलक्षणा-
थैव एषा चरणश्रुतिरिति कार्ष्णाजिनिराचार्यो मन्यते ॥
आनर्थक्यमिति चेन्न तद-
पेक्षत्वात् ॥ १० ॥