2026-05-06 05:21:57 by ambuda-bot
This page has not been fully proofread.
सू. ८. ]
तृतीयोऽध्यायः ।
";
५४३
खाद्विमुच्यते' इत्येवंजातीयाका । यदि च कृत्स्नमनारब्ध-
फलं कर्म एकस्मिन्प्रायणेऽभिव्यक्तं सत् एकां जातिमारभेत,
ततः स्वर्गनरकतिर्यग्योनिष्वधिकारानवगमात् धर्माधर्मानु-
त्पत्तौ निमित्ताभावात् नोत्तरा जातिरुपपद्येत, ब्रह्महत्यादीनां
च एकैकस्य कर्मणोऽनेकजन्मनिमित्तत्वं स्मर्यमाणमुपरुध्येत;
न च धर्माधर्मयोः स्वरूपफलसाधनादिसमधिगमे शास्त्राद-
तिरिक्तं कारणं शक्यं संभावयितुम् । न च दृष्टफलस्य कर्म-
ण: कार्यादे : प्रायणमभिव्यञ्जकं संभवतीति, अव्यापि -
कापीयं प्रायणस्याभिव्यञ्जकत्वकल्पना ; प्रदीपोपन्यासोऽपि
कर्मबलाबलप्रदर्शनेनैव प्रतिनीतः; स्थूलसूक्ष्मरूपाभिव्यक्ति-
वच्चेदं द्रष्टव्यम् — यथा हि प्रदीपः समानेऽपि संनिधाने
स्थूलं रूपमभिव्यनक्ति, न सूक्ष्मम् एवं प्रायणं समाने-
starरब्धफलस्य कर्मजातस्य प्राप्तावसरत्वे बलवतः कर्मणो
वृत्तिमुद्भावयति, न दुर्बलस्येति । तस्माच्छ्रुतिस्मृतिन्यायवि-
रोधादश्लिष्टोऽयमशेषकर्माभिव्यक्त्यभ्युपगमः । शेषकर्मसद्भा-
वेऽनिर्मोक्षप्रसङ्ग इत्ययमप्यस्थाने संभ्रमः, सम्यग्दर्शनादशे -
षकर्मक्षयश्रुतेः । तस्मात् स्थितमेतदेव - अनुशयवन्तोऽवरोह-
न्तीति । ते च अवरोहन्तो यथेतमनेवं च अवरोहन्ति ; यथे-
तमिति यथागतमित्यर्थः ; अनेवमिति तद्विपर्ययेणेत्यर्थः । धू-